Loading...
अथर्ववेद > काण्ड 20 > सूक्त 128

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 128/ मन्त्र 16
    सूक्त - देवता - प्रजापतिरिन्द्रो वा प्रजापतिरिन्द्रो वा छन्दः - भुरिगनुष्टुप् सूक्तम् - कुन्ताप सूक्त

    ये त्वा॑ श्वे॒ता अजै॑श्रव॒सो हार्यो॑ यु॒ञ्जन्ति॒ दक्षि॑णम्। पूर्वा॒ नम॑स्य दे॒वानां॒ बिभ्र॑दिन्द्र महीयते ॥

    स्वर सहित पद पाठ

    ये । त्वा॑ । श्वे॒ता: । अजै॑श्रव॒स: । हार्य॑: । यु॒ञ्जन्ति॒ । दक्षि॑णम् ॥ पूर्वा॒ । नम॑स्य । दे॒वाना॒म् । बिभ्र॑त् । इन्द्र । महीयते ॥१२८.१६॥


    स्वर रहित मन्त्र

    ये त्वा श्वेता अजैश्रवसो हार्यो युञ्जन्ति दक्षिणम्। पूर्वा नमस्य देवानां बिभ्रदिन्द्र महीयते ॥

    स्वर रहित पद पाठ

    ये । त्वा । श्वेता: । अजैश्रवस: । हार्य: । युञ्जन्ति । दक्षिणम् ॥ पूर्वा । नमस्य । देवानाम् । बिभ्रत् । इन्द्र । महीयते ॥१२८.१६॥

    अथर्ववेद - काण्ड » 20; सूक्त » 128; मन्त्र » 16

    टिप्पणीः - १६−(ये) (त्वा) (श्वेताः) श्वेतं रूप्येऽपि रजतम्-अमरे २३।७९। श्वेत-अर्शआद्यच्। श्वेतेन रजतादिधनेन युक्ताः (अजैश्रवसः) अजेय-श्रवसः। अजेयकीर्तयः (हार्यः) वसिवपियजि०। उ० ४।१२। हृञ् हरणे-इञ्। हरयो मनुष्यनाम-निघ० २।३। हरयः। मनुष्याः (युञ्जन्ति) संयोजयन्ति (दक्षिणम्) दक्ष वृद्धौ-इनन्। दक्षम्। कार्यकुशलम् (पूर्वा) प्राचीना नीतिः (नमस्य) हे सत्करणीय (देवानाम्) विदुषाम् (बिभ्रत्) बिभ्रती। पोषणं कुर्वन्ती (इन्द्र) परमैश्वर्यवन् मनुष्य (महीयते) पूज्यते ॥

    इस भाष्य को एडिट करें
    Top