अथर्ववेद - काण्ड 20/ सूक्त 128/ मन्त्र 15
सूक्त -
देवता - प्रजापतिरिन्द्रो वा
छन्दः - विराडनुष्टुप्
सूक्तम् - कुन्ताप सूक्त
पृ॒ष्ठं धाव॑न्तं ह॒र्योरौच्चैः॑ श्रव॒सम॑ब्रुवन्। स्व॒स्त्यश्व॒ जैत्रा॒येन्द्र॒मा व॑ह सु॒स्रज॑म् ॥
स्वर सहित पद पाठपृ॒ष्ठम् । धाव॑न्तम् । ह॒र्यो: । औच्चै॑:ऽश्रव॒सम् । अ॑ब्रुवन् ॥ स्व॒स्ति । अश्व॒ । जैत्रा॒य । इन्द्र॒म् । आ । व॑ह । सु॒स्रज॑म् ॥१२८.१५॥
स्वर रहित मन्त्र
पृष्ठं धावन्तं हर्योरौच्चैः श्रवसमब्रुवन्। स्वस्त्यश्व जैत्रायेन्द्रमा वह सुस्रजम् ॥
स्वर रहित पद पाठपृष्ठम् । धावन्तम् । हर्यो: । औच्चै:ऽश्रवसम् । अब्रुवन् ॥ स्वस्ति । अश्व । जैत्राय । इन्द्रम् । आ । वह । सुस्रजम् ॥१२८.१५॥
अथर्ववेद - काण्ड » 20; सूक्त » 128; मन्त्र » 15
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(पृष्ठम्) पृष्ठतः। अनुसरणेन (धावन्तम्) शीघ्रं गच्छन्तम् (हर्योः) हरणशीलयोर्बलपराक्रमयोः (औच्चैःश्रवसम्) उच्चैः+श्रु श्रवणे-असुन्, स्वार्थे अण्। औच्चैःश्रवसः अश्वनाम-निघ० १।१४। उच्चैर्महत्त्वं श्रवो यशो यस्य, यद्वा उन्नते श्रवसी कर्णौ यस्य तम्। बहुकीर्तिमन्तमुन्नतकर्णं वा घोटकम् (अब्रुवन्) अकथयन् ते विद्वांसः (स्वस्ति) कुशलेन (अश्व) हे घोटक (जैत्राय) जेतृ-अण्। जयाय (इन्द्रम्) परमैश्वर्यवन्तं पुरुषम् (आ वह) आनय (सुस्रजम्) सृज विसर्गे-क्तिन्। सुमालयेव सुसेनया युक्तम् ॥
इस भाष्य को एडिट करें