अथर्ववेद - काण्ड 20/ सूक्त 128/ मन्त्र 1
सूक्त -
देवता - प्रजापतिरिन्द्रो वा
छन्दः - निचृदनुष्टुप्
सूक्तम् - कुन्ताप सूक्त
यः स॒भेयो॑ विद॒थ्य: सु॒त्वा य॒ज्वाथ॒ पूरु॑षः। सूर्यं॒ चामू॑ रि॒शादस॒स्तद्दे॒वाः प्राग॑कल्पयन् ॥
स्वर सहित पद पाठय: । स॒भेय॑: । विद॒थ्य॑: । सु॒त्वा । य॒ज्वा । अथ॒ । पूरु॒ष: ॥ सूर्य॒म् । च॒ । अमू॑ । रि॒शादस॒: । तत् । दे॒वा: । प्राक् । अ॑कल्पयन् ॥१२८.१॥
स्वर रहित मन्त्र
यः सभेयो विदथ्य: सुत्वा यज्वाथ पूरुषः। सूर्यं चामू रिशादसस्तद्देवाः प्रागकल्पयन् ॥
स्वर रहित पद पाठय: । सभेय: । विदथ्य: । सुत्वा । यज्वा । अथ । पूरुष: ॥ सूर्यम् । च । अमू । रिशादस: । तत् । देवा: । प्राक् । अकल्पयन् ॥१२८.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 128; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - [सूचना−पदपाठ के लिये सूचना सूक्त १२७ देखो ॥]१−(यः) (सभेयः) ढश्छन्दसि। पा० ४।४।१०६। सभा-ढप्रत्ययः। सभासु साधुः। सभ्यः (विदथ्यः) तत्र साधुः पा० ४।४।९८। विदथ-यत्। विद्वत्सु साधुः (सुत्वा) सुयजोर्ङ्वनिप्। पा० ३।२।१०३। षुञ् अभिषवे-ङ्वनिप्। सोमस्य तत्त्वरसस्य सोता (यज्वा) यज-ङ्वनिप् पूर्वसूत्रेण। यष्टा। संगन्ता (अथ) समुच्चये (पूरुषः) पुरुषः (सूर्यम्) सूर्यवत् प्रतापिनम् (च) अवधारणे (अमू) सुपां सुपो भवन्ति। वा० पा० ७।१।३९। एकवचनस्य द्विवचनम्। अनुम् (रिशादसः) अ० २।२८।२। रिश हिंसायाम्+क+अद भक्षणे-असुन्। हिंसकानां भक्षका नाशकाः (तत्) तदा (देवाः) विद्वांसः (प्राक्) पूर्वम्। अग्रम् (अकल्पयन्) कल्पितवन्तः ॥
इस भाष्य को एडिट करें