अथर्ववेद - काण्ड 20/ सूक्त 128/ मन्त्र 14
सूक्त -
देवता - प्रजापतिरिन्द्रो वा
छन्दः - अनुष्टुप्
सूक्तम् - कुन्ताप सूक्त
यः पर्व॑ता॒न्व्य॑दधा॒द्यो अ॒पो व्य॑गाहथाः। इन्द्रो॒ यो वृ॑त्र॒हान्म॒हं तस्मा॑दिन्द्र॒ नमो॑ऽस्तु ते ॥
स्वर सहित पद पाठय: । पर्व॑ता॒न् । अ॑दधा॒त् । य: । अ॒प: । वि । अ॑गा॒हथा: ॥ इन्द्र॒: । य: । वृ॑त्र॒हा । आत् । म॒हम् । तस्मा॑त् । इन्द्र॒ । नम॑: । अ॒स्तु॒ । ते॒ ॥१२८.१४॥
स्वर रहित मन्त्र
यः पर्वतान्व्यदधाद्यो अपो व्यगाहथाः। इन्द्रो यो वृत्रहान्महं तस्मादिन्द्र नमोऽस्तु ते ॥
स्वर रहित पद पाठय: । पर्वतान् । अदधात् । य: । अप: । वि । अगाहथा: ॥ इन्द्र: । य: । वृत्रहा । आत् । महम् । तस्मात् । इन्द्र । नम: । अस्तु । ते ॥१२८.१४॥
अथर्ववेद - काण्ड » 20; सूक्त » 128; मन्त्र » 14
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १४−(यः) पुरुषः (पर्वतान्) शैलान् (वि) विविधम् (अदधात्) अदधाः। धारितवानसि (यः) (अपः) जलानि (वि) (अगाहथाः) विलोडितवानसि (इन्द्रः) परमैश्वर्यवान् पुरुषः (यः) (वृत्रहा) शत्रुनाशकः असि (आत्) अनन्तरम् (महम्) महत् (तस्मात्) कारणात् (इन्द्र) (नमः) सत्कारः (अस्तु) (ते) तादृशाय तुभ्यम् ॥
इस भाष्य को एडिट करें