Loading...
अथर्ववेद > काण्ड 20 > सूक्त 128

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 128/ मन्त्र 11
    सूक्त - देवता - प्रजापतिरिन्द्रो वा छन्दः - विराडार्ष्यनुष्टुप् सूक्तम् - कुन्ताप सूक्त

    वा॑वा॒ता च॒ महि॑षी स्व॒स्त्या च यु॒धिंग॒मः। श्वा॒शुर॑श्चाया॒मी तो॒ता कल्पे॑षु सं॒मिता॑ ॥

    स्वर सहित पद पाठ

    वा॒वा॒ता । च॒ । महि॑षी । स्व॒स्त्या । च । युधिंगम: ॥ श्वा॒शुर॑: । च । अया॒मी । तो॒ता । कल्पे॑षु । सं॒मिता ॥१२८.११॥


    स्वर रहित मन्त्र

    वावाता च महिषी स्वस्त्या च युधिंगमः। श्वाशुरश्चायामी तोता कल्पेषु संमिता ॥

    स्वर रहित पद पाठ

    वावाता । च । महिषी । स्वस्त्या । च । युधिंगम: ॥ श्वाशुर: । च । अयामी । तोता । कल्पेषु । संमिता ॥१२८.११॥

    अथर्ववेद - काण्ड » 20; सूक्त » 128; मन्त्र » 11

    टिप्पणीः - ११−(वावाता) हसिमृग्रिण्वामिदमि०। उ० ३।८६। वा गतिगन्धनयोः यङि तन् प्रत्ययः, टाप्। भृशं शीघ्रकारिणी (च) (महिषी) म० १०। पूजनीया पत्नी (स्वस्त्या) सुखेन। धर्मभावेन (च) (युधिंगमः) म० १०। युधौ युद्धे गमनशीलः शूरः (श्वाशुरः) म० १०। सु+आशुरः। सुष्ठु वेगवान् (च) (आयामी) म० १०। शासकः। अन्यद् गतम् ॥

    इस भाष्य को एडिट करें
    Top