अथर्ववेद - काण्ड 20/ सूक्त 128/ मन्त्र 4
सूक्त -
देवता - प्रजापतिरिन्द्रो वा
छन्दः - अनुष्टुप्
सूक्तम् - कुन्ताप सूक्त
यश्च॑ प॒णि रघु॑जि॒ष्ठ्यो यश्च॑ दे॒वाँ अदा॑शुरिः। धीरा॑णां॒ शश्व॑ताम॒हं तद॑पा॒गिति॑ शुश्रुम ॥
स्वर सहित पद पाठय: । च॑ । प॒णि । रघु॑जि॒ष्ठ्य: । य: । च॑ । दे॒वान् । अदा॑शुरि: ॥ धीरा॑णा॒म् । शश्व॑ताम् । अ॒हम् । तत् । अ॑पा॒क् । इति॑ । शुश्रुम ॥१२८.४॥
स्वर रहित मन्त्र
यश्च पणि रघुजिष्ठ्यो यश्च देवाँ अदाशुरिः। धीराणां शश्वतामहं तदपागिति शुश्रुम ॥
स्वर रहित पद पाठय: । च । पणि । रघुजिष्ठ्य: । य: । च । देवान् । अदाशुरि: ॥ धीराणाम् । शश्वताम् । अहम् । तत् । अपाक् । इति । शुश्रुम ॥१२८.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 128; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(यः) (च) (पणि) विभक्तेर्लुक्। पणिः। कुव्यवहारी (रघुजिष्ठ्यः) लघुज्येष्ठ्यः, छान्दसं रूपम्, लघु+ज्येष्ठ-भावे यत्। लघुषु निःसारेषु ज्येष्ठ्यम् अतिशयेन वर्धनं यस्य सः। अतिशयेन निःसारः (यः) (च) (देवान्) विदुषः प्रति (अदाशुरिः) अ+दाशृ दाने-उरिन् प्रत्ययः। अदानशीलः (धीराणाम्) बुद्धिमतां मध्ये (शश्वताम्) बहूनाम्। सर्वेषाम् (अहम्) बहुवचनस्यैकवचनम्। वयम् (तत्) सः (अपाक्) दूरे गमनीयः (इति) एवम् (शुश्रुम) वयं श्रुतवन्तः ॥
इस भाष्य को एडिट करें