अथर्ववेद - काण्ड 20/ सूक्त 128/ मन्त्र 3
सूक्त -
देवता - प्रजापतिरिन्द्रो वा
छन्दः - निचृदनुष्टुप्
सूक्तम् - कुन्ताप सूक्त
यद्भ॒द्रस्य॒ पुरु॑षस्य पु॒त्रो भ॑वति दाधृ॒षिः। तद्वि॒प्रो अब्र॑वीदु॒ तद्ग॑न्ध॒र्वः काम्यं॒ वचः॑ ॥
स्वर सहित पद पाठयत् । भ॒द्रस्य॒ । पुरु॑षस्य । पु॒त्र: । भ॑वति । दाधृ॒षि: ॥ तत् । वि॒प्र: । अब्र॑वीत् । ऊं॒ इति॑ । तत् । ग॑न्ध॒र्व: । काम्य॒म् । वच॑: ॥१२८.३॥
स्वर रहित मन्त्र
यद्भद्रस्य पुरुषस्य पुत्रो भवति दाधृषिः। तद्विप्रो अब्रवीदु तद्गन्धर्वः काम्यं वचः ॥
स्वर रहित पद पाठयत् । भद्रस्य । पुरुषस्य । पुत्र: । भवति । दाधृषि: ॥ तत् । विप्र: । अब्रवीत् । ऊं इति । तत् । गन्धर्व: । काम्यम् । वच: ॥१२८.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 128; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(यत्) यदा (भद्रस्य) श्रेष्ठस्य (पुरुषस्य) (पुत्रः) (भवति) (दाधृषिः) किकिनावुत्सर्गश्छन्दसि सदादिभ्यो दर्शनात्। वा० पा० ३।२।१७१। ञिधृषा प्रागल्भ्ये-किन्, धृष्टः। प्रगल्भः। निर्लज्जः (तत्) तदा (विप्रः) मेधावी (अब्रवीत्) (उ) अवधारणे (तत्) इदम् (गन्धर्वः) अथ० २।१।२। गो+धृञ् धारणे-वप्रत्ययः, गोशब्दस्य गमादेशः। विद्याधारकः (काम्यम्) मनोहरम् (वचः) वचनम् ॥
इस भाष्य को एडिट करें