अथर्ववेद - काण्ड 20/ सूक्त 128/ मन्त्र 5
सूक्त -
देवता - प्रजापतिरिन्द्रो वा
छन्दः - आर्ष्यनुष्टुप्
सूक्तम् - कुन्ताप सूक्त
ये च॑ दे॒वा अय॑ज॒न्ताथो॒ ये च॑ पराद॒दिः। सूर्यो॒ दिव॑मिव ग॒त्वाय॑ म॒घवा॑ नो॒ वि र॑प्शते ॥
स्वर सहित पद पाठये । च॑ । दे॒वा: । अय॑ज॒न्त । अथो॒ इति॑ । ये । च॑ । पराद॒दि: ॥ सूर्य॒: । दिव॑म्ऽइव । ग॒त्वाय॑ । म॒घवा॑ । न॒: । वि । र॒प्श॒ते॒ ॥१२८.५॥
स्वर रहित मन्त्र
ये च देवा अयजन्ताथो ये च पराददिः। सूर्यो दिवमिव गत्वाय मघवा नो वि रप्शते ॥
स्वर रहित पद पाठये । च । देवा: । अयजन्त । अथो इति । ये । च । पराददि: ॥ सूर्य: । दिवम्ऽइव । गत्वाय । मघवा । न: । वि । रप्शते ॥१२८.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 128; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - −(ये) (अथो च च) समुच्चये (देवाः) विद्वांसः (अयजन्त) संगतिं कृतवन्तः (ये) (पराददिः) अथ० २०।६।२। बहुचनस्यैकवचनम्। पराददयः। पराणां शत्रूणामादातारो ग्रहीतारः (सूर्यः) (दिवम्) आकाशम् (इव) यथा (गत्वाय) ल्यप् छान्दसः। गत्वा। प्राप्य (मघवा) धनवान्। सभापतिः (नः) अस्मान् प्राप्य (वि) विविधम् (रप्शते) राजते-ऋग्वेदभाष्ये ४।४।१, दयानन्दसायणौ ॥
इस भाष्य को एडिट करें