Loading...
अथर्ववेद > काण्ड 20 > सूक्त 35

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 35/ मन्त्र 10
    सूक्त - नोधाः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-३५

    अ॒स्येदे॒व शव॑सा शु॒षन्तं॒ वि वृ॑श्च॒द्वज्रे॑ण वृ॒त्रमिन्द्रः॑। गा न व्रा॒णा अ॒वनी॑रमुञ्चद॒भि श्रवो॑ दा॒वने॒ सचे॑ताः ॥

    स्वर सहित पद पाठ

    अ॒स्य । इत् । ए॒व । शव॑सा । शु॒षन्त॑म् । वि । वृ॒श्च॒त् । वज्रे॑ण । वृ॒त्रम् । इन्द्र॑: ॥ गा: । न । व्रा॒णा: । अ॒वनी॑: । अ॒मु॒ञ्च॒त् । अ॒भि। श्रव॑: । दा॒वने॑ । सऽचे॑ता ॥३५.१०॥


    स्वर रहित मन्त्र

    अस्येदेव शवसा शुषन्तं वि वृश्चद्वज्रेण वृत्रमिन्द्रः। गा न व्राणा अवनीरमुञ्चदभि श्रवो दावने सचेताः ॥

    स्वर रहित पद पाठ

    अस्य । इत् । एव । शवसा । शुषन्तम् । वि । वृश्चत् । वज्रेण । वृत्रम् । इन्द्र: ॥ गा: । न । व्राणा: । अवनी: । अमुञ्चत् । अभि। श्रव: । दावने । सऽचेता ॥३५.१०॥

    अथर्ववेद - काण्ड » 20; सूक्त » 35; मन्त्र » 10

    टिप्पणीः - १०−(अस्य) परमेश्वरस्य (इत् एव) (शवसा) बलेन (शुषन्तम्) जुष शोषणे-श्यनि प्राप्ते शः। शुष्यन्तम्। शोषकम् (वि) विविधम् (वृश्चत्) अच्छिनत् (वज्रेण) विद्युदादिशस्त्रेण (वृत्रम्) आचरकं शत्रुम् (इन्द्रः) परमैश्वर्यवान् सेनापतिः (गाः) धेनूः (न) इव (व्राणाः) वृञ् वरणे-कर्मणि शानच्, यको लुक्, गुणाभावे यणादेशः। आवृताः (अवनीः) अर्त्तिसृधृधम्यम्यश्यवितॄभ्योऽनिः। उ०२।१०२। अव रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु अनि प्रत्ययः। भूमिदेशान् (अमुञ्चत्) अमोचयत् (अभि) अभिलक्ष्य (श्रवः) कीर्तिम् (दावने) आतो मनिन्क्वनिब्वनिपश्च। पा०३।२।७४। ददातेर्वनिप्, अल्लोपाभावश्छान्दसः। सुखदानाय (सचेताः) चेतसा ज्ञानेन सह वर्तमानः ॥

    इस भाष्य को एडिट करें
    Top