अथर्ववेद - काण्ड 20/ सूक्त 35/ मन्त्र 12
अ॒स्मा इदु॒ प्र भ॑रा॒ तूतु॑जानो वृ॒त्राय॒ वज्र॒मीशा॑नः किये॒धाः। गोर्न पर्व॒ वि र॑दा तिर॒श्चेष्य॒न्नर्णां॑स्य॒पां च॒रध्यै॑ ॥
स्वर सहित पद पाठअ॒स्मै । इत् । ऊं॒ इति॑ । प्र । भ॒र॒ । तूतु॑जान: । वृ॒त्राय॑ । वज्र॑म् । ईशा॑न: । कि॒ये॒धा: ॥ गो: । न । पर्व॑ । वि । र॒द॒ । ति॒र॒श्चा । इष्य॑न् । अर्णा॑सि । अ॒पाम् । च॒रध्यै॑ ॥३५.१२॥
स्वर रहित मन्त्र
अस्मा इदु प्र भरा तूतुजानो वृत्राय वज्रमीशानः कियेधाः। गोर्न पर्व वि रदा तिरश्चेष्यन्नर्णांस्यपां चरध्यै ॥
स्वर रहित पद पाठअस्मै । इत् । ऊं इति । प्र । भर । तूतुजान: । वृत्राय । वज्रम् । ईशान: । कियेधा: ॥ गो: । न । पर्व । वि । रद । तिरश्चा । इष्यन् । अर्णासि । अपाम् । चरध्यै ॥३५.१२॥
अथर्ववेद - काण्ड » 20; सूक्त » 35; मन्त्र » 12
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १२−(अस्मै) संसारहिताय (इत्) एव (उ) वितर्के (प्र) प्रकर्षेण (भर) धर (तूतुजानः) तुज हिंसाबलादाननिकेतनेषु-कानच्। तुजादीनां दीर्घोऽभ्यासस्य। पा०६।१।७। इति दीर्घः। तूतुजानः क्षिप्रनाम-निघ०२।१। त्वरमाण (ईशानः) ऐश्वर्यवान् (कियेधाः) म०६। कियतो महतो बलस्य धारकः (गोः) पृथिव्याः (न) इव (पर्व) पर्वाणि (वि) विविधम् (रद) रद विलेखने। विदारय (तिरश्चा) ऋत्विग्दधृक्०। पा०३।२।९। तिरस्+अञ्चु गतिपूजनयोः-क्विन्। तिर्यग्गत्या (इष्यन्) गच्छन् (अर्णांसि) उदके च। उ०४।१७६। ऋ गतिप्रापणयोः-असुन् नुक् च। नयनानि (अपाम्) आपः, आप्ताः प्रजाः-दयानन्दभाष्ये यजु०६।२७। प्रजानाम् (चरध्यै) तुमर्थे सेसेनसे०। पा०३४।९। चरतेः-अध्यैप्रत्ययः। चरितुम्। गन्तुम् ॥
इस भाष्य को एडिट करें