अथर्ववेद - काण्ड 20/ सूक्त 35/ मन्त्र 11
अ॒स्येदु॑ त्वे॒षसा॑ रन्त॒ सिन्ध॑वः॒ परि॒ यद्वज्रे॑ण सी॒मय॑च्छत्। ई॑शान॒कृद्दा॒शुषे॑ दश॒स्यन्तु॒र्वीत॑ये गा॒धं तु॒र्वणिः॒ कः ॥
स्वर सहित पद पाठअ॒स्य । इत् । ऊं॒ इति॑ । त्वे॒षसा॑ । र॒न्त॒ । सिन्ध॑व: । परि॑ । यत् । वज्रे॑ण । सी॒म् । अय॑च्छत् ॥ ई॒शा॒न॒ऽकृत् । दा॒शुषे॑ । द॒श॒स्यन् । तु॒र्वीत॑ये । गा॒धम् । तु॒र्वणि॑: । क॒रिति॑ । क: ॥३५.११॥
स्वर रहित मन्त्र
अस्येदु त्वेषसा रन्त सिन्धवः परि यद्वज्रेण सीमयच्छत्। ईशानकृद्दाशुषे दशस्यन्तुर्वीतये गाधं तुर्वणिः कः ॥
स्वर रहित पद पाठअस्य । इत् । ऊं इति । त्वेषसा । रन्त । सिन्धव: । परि । यत् । वज्रेण । सीम् । अयच्छत् ॥ ईशानऽकृत् । दाशुषे । दशस्यन् । तुर्वीतये । गाधम् । तुर्वणि: । करिति । क: ॥३५.११॥
अथर्ववेद - काण्ड » 20; सूक्त » 35; मन्त्र » 11
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ११−(अस्य) सभाध्यक्षस्य (इत् उ) अवधारणे (त्वेषसा) तेजसा। पराक्रमेण (रन्त) रमु क्रीडायाम्-लङि शपो लुक्। अरमन्त (सिन्धवः) नद्यः (परि) सर्वतः (यत्) यतः (वज्रेण) विद्युदादिभूखननशरत्रेण (सीम्) अ०२०।२०।६। षिञ् बन्धने-ईप्रत्ययः। बन्धम् (अयच्छत्) यमु उपरमे-लङ्। नियमितवान्। अवरुद्धवान् (ईशानकृत्) ऐश्वर्ययुक्तस्य कर्ता (दाशुषे) दानिने मनुष्याय (दशस्यन्) दंश दंशने-असुन्, स च कित्। उपमानादाचारे। पा०३।१।१०। दशसू-क्यच्, शतृ। दश कवच इवाचरन् (तुर्वीतये)। तुर वेगे-क्विप्+वी गतौ-क्तिन्। तुरां शीघ्रकारिणां गतये गमनाय (गाधम्) गाधृ प्रतिष्ठायाम्-घञ्। तलस्पर्शस्थानम्। अवतरणस्थानम् (तुर्वणिः) तुर्+वन संभक्तौ-इन्। शीघ्रत्वस्य वेत्रस्य संभक्ता (कः) करोतेर्लुङ् छान्दसं रूपम् अकार्षीत् ॥
इस भाष्य को एडिट करें