अथर्ववेद - काण्ड 20/ सूक्त 35/ मन्त्र 6
अ॒स्मा इदु॒ त्वष्टा॑ तक्ष॒द्वज्रं॒ स्वप॑स्तमं स्व॒र्यं रणा॑य। वृ॒त्रस्य॑ चिद्वि॒दद्येन॒ मर्म॑ तु॒जन्नीशा॑नस्तुज॒ता कि॑ये॒धाः ॥
स्वर सहित पद पाठअ॒स्मै । इत् । ऊं॒ इति॑ । त्वष्टा॑ । त॒क्ष॒त् । वज्र॑म् । स्वप॑:ऽतमम् । स्व॒र्य॑म् । रणा॑य ॥ वृ॒त्रस्य॑ । चि॒त् । वि॒दत् । येन॑ । मर्म॑ । तु॒जन् । ईशा॑न: । तु॒ज॒ता । कि॒ये॒धा: ॥३५.६॥
स्वर रहित मन्त्र
अस्मा इदु त्वष्टा तक्षद्वज्रं स्वपस्तमं स्वर्यं रणाय। वृत्रस्य चिद्विदद्येन मर्म तुजन्नीशानस्तुजता कियेधाः ॥
स्वर रहित पद पाठअस्मै । इत् । ऊं इति । त्वष्टा । तक्षत् । वज्रम् । स्वप:ऽतमम् । स्वर्यम् । रणाय ॥ वृत्रस्य । चित् । विदत् । येन । मर्म । तुजन् । ईशान: । तुजता । कियेधा: ॥३५.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 35; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - इस मन्त्र का मिलान करो-अ०२।।६॥६−(अस्मै) संसारहिताय (इत्) एव (उ) वितर्के (त्वष्टा) अ०२।।६। त्वक्षू तनूकरणे-तृन्। व्यवहाराणां तनूकर्ता सूक्ष्मदर्शी विश्वकर्मा (तक्षत्) तक्षू तनूकरणे-लङ्। अतक्षत्। तीक्ष्णमकरोत् (वज्रम्) विद्युदादिशस्त्रसमूहम् (स्वपस्तमम्) अपः कर्मनाम-निघ०२।१। सुष्ठु अपांसि कर्माणि यस्मात् तम् (स्वर्यम्) अ०२।।६। स्वः-यत्। सुखे साधुम् (रणाय) रणं युद्धं जेतुम् (वृत्रस्य) शत्रोः (चित्) एव (विदत्) विद्लृ लाभे-लुङ्। अविदत्। लब्धवान् (येन) वज्रेण (मर्म) अ०।८।९। सन्धिस्थानं जीवस्थानम् (तुजन्) तुज हिंसायाम्-शतृ, शपि प्राप्ते छान्दसः शः। हिंसन् (ईशानः) ऐश्वर्यवान् (तुजता) छेदकेन (कियेधाः) कियत्+दधातेर्विच्, कियतः किये भावः। कियेधाः कियद्धा इति वा क्रममाणधा इति वा-निरु०६।२०। कियतो महतो बलस्य धारकः ॥
इस भाष्य को एडिट करें