अथर्ववेद - काण्ड 20/ सूक्त 35/ मन्त्र 13
अ॒स्येदु॒ प्र ब्रू॑हि पू॒र्व्याणि॑ तु॒रस्य॒ कर्मा॑णि॒ नव्य॑ उ॒क्थैः। यु॒धे यदि॑ष्णा॒न आयु॑धान्यृघा॒यमा॑णो निरि॒णाति॒ शत्रू॑न् ॥
स्वर सहित पद पाठअ॒स्य । इत् । ऊं॒ इंति॑ । प्र । ब्रू॒हि॒ । पू॒र्व्याणि॑ । तु॒रस्य॑ । कर्मा॑णि । नव्य॑: । उ॒थ्यै: ॥ यु॒धे । यत् । इ॒ष्णा॒न: । आयु॑धानि । ऋ॒धा॒यमा॑ण: । नि॒ऽरि॒णाति॑ ॥३५.१३॥
स्वर रहित मन्त्र
अस्येदु प्र ब्रूहि पूर्व्याणि तुरस्य कर्माणि नव्य उक्थैः। युधे यदिष्णान आयुधान्यृघायमाणो निरिणाति शत्रून् ॥
स्वर रहित पद पाठअस्य । इत् । ऊं इंति । प्र । ब्रूहि । पूर्व्याणि । तुरस्य । कर्माणि । नव्य: । उथ्यै: ॥ युधे । यत् । इष्णान: । आयुधानि । ऋधायमाण: । निऽरिणाति ॥३५.१३॥
अथर्ववेद - काण्ड » 20; सूक्त » 35; मन्त्र » 13
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १३−(अस्य) सभापतेः (इत्) (उ) (प्र) प्रकर्षेण (ब्रूहि) कथय (पूर्व्याणि) पूर्व्यं पुराणनाम-निघ०३।२७। पुराणानि (तुरस्य) तुरमाणस्य (कर्माणि) वीरकर्माणि (नव्यः) अ०२।।२। अचो यत्। पा०३।१।९७। णु स्तुतौ-यत्। (उक्थैः) पातॄतुदिवचि०। उ०२।७। वच परिभाषणे थक्। वक्तुं योग्यैर्वचनैः (युधे) युद्धाय (यत्) यः सेनापतिः (इष्णानः) इष आभीक्ष्ण्ये-शानच्। वारं-वारं प्रेरयन् (आयुधानि) शस्त्राणि (ऋघायमाणः) इगुपधज्ञाप्रीकिरः कः। पा०३।१।१३। ऋधु वृद्धौ-क, धस्य घः। लोहितादिडाज्भ्यः क्यच्। पा०३।१।१३। ऋध-भवत्यर्थे-क्यच्, शानच्। ऋध ऋधो वृद्धो भवतीति। प्रवर्धमानः। अप्रतिहतगतिः (निरिणाति) री गतिरेषणयोः श्ना। प्वादीनां ह्रस्वः। पा०७।३।८०। इति ह्रस्वः। निरन्तरं हिनस्ति (शत्रून्) वैरिणो दुष्टान् ॥
इस भाष्य को एडिट करें