Loading...
अथर्ववेद > काण्ड 20 > सूक्त 35

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 35/ मन्त्र 4
    सूक्त - नोधाः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-३५

    अ॒स्मा इदु॒ स्तोमं॒ सं हि॑नोमि॒ रथं॒ न तष्टे॑व॒ तत्सि॑नाय। गिर॑श्च॒ गिर्वा॑हसे सुवृ॒क्तीन्द्रा॑य विश्वमि॒न्वं मेधि॑राय ॥

    स्वर सहित पद पाठ

    अ॒स्मै । इत् । ऊं॒ इति॑ । स्तोम॑म् । सम् । हि॒नो॒मि॒ । रथ॑म् । न । तष्टा॑ऽइव । तत्ऽसि॑नाय ॥ गिर॑: । च॒ । गिर्वा॑हसे । सु॒ऽवृ॒क्ति । इन्द्रा॑य । वि॒श्व॒म्ऽइ॒न्वम् । मेध‍ि॑राय ॥३५.४॥


    स्वर रहित मन्त्र

    अस्मा इदु स्तोमं सं हिनोमि रथं न तष्टेव तत्सिनाय। गिरश्च गिर्वाहसे सुवृक्तीन्द्राय विश्वमिन्वं मेधिराय ॥

    स्वर रहित पद पाठ

    अस्मै । इत् । ऊं इति । स्तोमम् । सम् । हिनोमि । रथम् । न । तष्टाऽइव । तत्ऽसिनाय ॥ गिर: । च । गिर्वाहसे । सुऽवृक्ति । इन्द्राय । विश्वम्ऽइन्वम् । मेध‍िराय ॥३५.४॥

    अथर्ववेद - काण्ड » 20; सूक्त » 35; मन्त्र » 4

    टिप्पणीः - ४−(अस्मै) संसारहिताय (इत्) एव (उ) वितर्के (स्तोमम्) स्तुत्यं व्यवहारम् (सम्) सम्यक् (हिनोमि) हि गतिवृद्ध्योः। वर्धयामि। स्तौमि (रथम्) रमणीयं यानम् (न) सम्प्रति (तष्टा) तक्षू तनूकरणे-तृन्, ऊदित्वात्पक्षे इडभावः। तक्षकः। विश्वकर्म्मा। शिल्पी (इव) यथा (तत्सिनाय) इण्सिञ्जि०। उ०३।२। षिञ् बन्धने-नक्। सिनमन्नं भवति सिनाति भूतानि-निरु०।। तेन रथेन सिनस्य अन्नस्य प्राप्तये (गिरः) वेदवाणीः (च) (गिर्वाहसे) सर्वधातुभ्य असुन्। उ०४।१८९। गिर्+वह प्रापणे-असुन्, धातोर्दीर्घश्छान्दसः। गिरां विद्यानां प्रापकाय (सुवृक्ति) म०२। सु+वृक आदाने-क्तिन्। विभक्तेर्लुक्। सुष्ठु ग्राह्याभिः क्रियाभिः (इन्द्राय) परमैश्वर्यवते सभापतये (विश्वमिन्वम्) इवि व्याप्तौ-पचाद्यच्, विभक्त्यलुक्। सर्वव्यापकम् (मेधिराय) मेधारथाभ्यामिरन्निरचौ वक्तव्यौ। वा० पा०।२।१०९। मेधा-हरन्। मेधाविने ॥

    इस भाष्य को एडिट करें
    Top