Loading...
अथर्ववेद > काण्ड 20 > सूक्त 35

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 35/ मन्त्र 8
    सूक्त - नोधाः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-३५

    अ॒स्मा इदु॒ ग्नाश्चि॑द्दे॒वप॑त्नी॒रिन्द्रा॑या॒र्कम॑हि॒हत्य॑ ऊवुः। परि॒ द्यावा॑पृथि॒वी ज॑भ्र उ॒र्वी नास्य॒ ते म॑हि॒मानं॒ परि॑ ष्टः ॥

    स्वर सहित पद पाठ

    अ॒स्मै । इत् । ऊं॒ इति॑ । ग्ना: । चि॒त् । दे॒वऽप॑त्नी: । इन्द्रा॑य । अ॒र्कम् । अ॒हि॒ऽहत्ये॑ । ऊ॒वु॒रित्यू॑वु: ॥ परि॑ । द्यावा॑पृथि॒वी इत‍ि॑ । ज॒भ्रे॒ । उ॒र्वी इति॑ । न । अ॒स्य॒ । ते इति॑ । म॒हि॒मान॑म् । परि॑ । स्त॒ इति॑ स्त: ॥३५.८॥


    स्वर रहित मन्त्र

    अस्मा इदु ग्नाश्चिद्देवपत्नीरिन्द्रायार्कमहिहत्य ऊवुः। परि द्यावापृथिवी जभ्र उर्वी नास्य ते महिमानं परि ष्टः ॥

    स्वर रहित पद पाठ

    अस्मै । इत् । ऊं इति । ग्ना: । चित् । देवऽपत्नी: । इन्द्राय । अर्कम् । अहिऽहत्ये । ऊवुरित्यूवु: ॥ परि । द्यावापृथिवी इत‍ि । जभ्रे । उर्वी इति । न । अस्य । ते इति । महिमानम् । परि । स्त इति स्त: ॥३५.८॥

    अथर्ववेद - काण्ड » 20; सूक्त » 35; मन्त्र » 8

    टिप्पणीः - ८−(अस्मै) संसारहिताय (इत्) एव (उ) वितर्के (ग्नाः) अ०७।४९।२। गमेर्नप्रत्ययः, डाप्, टिलोपः। ग्ना वाङ्नाम-निघ०१।११। वेदवाण्यः (चित्) अपि (देवपत्नीः) विद्वद्भिः पालनीयाः (इन्द्राय) परमैश्वर्यवते परमात्मने (अर्कम्) अर्चनम्। पूजनम् (अहिहत्ये) अहेराहन्तुः समन्ताद् नाशकस्य विघ्नस्य हत्यायां नाशने (ऊवुः) वेञ् तन्तुसन्ताने-लिट्। विस्तारयामासुः अतन्वत (परि) सर्वतः (द्यावापृथिवी) सूर्यभूलोकौ (जभ्रे) हृञो लिट्। हस्य भः। जह्रे। गृहीतवान् (उर्वी) विस्तृते (न) निषेधे (अस्य) परमेश्वरस्य (ते) उभे (महिमानम्) महत्वम् (परि अस्तः) पराभवतः। प्राप्नुतः ॥

    इस भाष्य को एडिट करें
    Top