अथर्ववेद - काण्ड 20/ सूक्त 35/ मन्त्र 9
अ॒स्येदे॒व प्र रि॑रिचे महि॒त्वं दि॒वस्पृ॑थि॒व्याः पर्य॒न्तरि॑क्षात्। स्व॒राडिन्द्रो॒ दम॒ आ वि॒श्वगू॑र्तः स्व॒रिरम॑त्रो ववक्षे॒ रणा॑य ॥
स्वर सहित पद पाठअ॒स्य । इत् । ए॒व । प्र । रि॒रि॒चे । म॒हि॒ऽत्वम् । दि॒व: । पृ॒थि॒व्या: । परि॑ । अ॒न्तरि॑क्षात् ॥ स्व॒ऽराट् । इन्द्र॑: । दमे॑ । आ । वि॒श्वऽगू॑र्त: । सु॒ऽअ॒रि: । अम॑त्र: । व॒व॒क्षे॒ । रणा॑य ॥३५.९॥
स्वर रहित मन्त्र
अस्येदेव प्र रिरिचे महित्वं दिवस्पृथिव्याः पर्यन्तरिक्षात्। स्वराडिन्द्रो दम आ विश्वगूर्तः स्वरिरमत्रो ववक्षे रणाय ॥
स्वर रहित पद पाठअस्य । इत् । एव । प्र । रिरिचे । महिऽत्वम् । दिव: । पृथिव्या: । परि । अन्तरिक्षात् ॥ स्वऽराट् । इन्द्र: । दमे । आ । विश्वऽगूर्त: । सुऽअरि: । अमत्र: । ववक्षे । रणाय ॥३५.९॥
अथर्ववेद - काण्ड » 20; सूक्त » 35; मन्त्र » 9
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ९−(अस्य) सर्वत्र व्यापकस्य परमेश्वरस्य (इत्) एव (एव) निश्चयेन (प्र) प्रकर्षेण (रिरिचे) रिचिर् विरेचने-लिट्। अधिकं बभूव (महित्वम्) महत्त्वम् (दिवः) सूर्यलोकात् (पृथिव्याः) भूलोकात् (परि) सर्वतः (अन्तरिक्षात्) आकाशात् (स्वराट्) राजृ दीप्तौ ऐश्वर्ये च-क्विप्। स्वयं राजा शासकः (इन्द्रः) परमैश्वर्यवान् परमात्मा (दमे) दमु उपशमे-घञ्। शासने (विश्वगूर्तः) गूरी उद्यमे-क्त। नसत्तनिषत्ताऽनुत्तप्रतूर्त्तसूर्तगूर्तानिच्छन्दसि। पा०८।२।६१। निष्ठानत्त्वाभावः। विश्वं सर्वं जगद् गूर्णम् उद्यतम् उद्यमे कृतं येन सः (स्वरिः) अच इः। उ०४।१३९। सु+ऋ गतिप्रापणयोः-इप्रत्ययः। सुप्रेरकः (अमत्रः) अमिनक्षियजि०। उ०३।१०। अम गत्यादिषु अत्रन्। ज्ञानवान् (ववक्षे) वक्ष रोषसंघातयोः-लिट्, आत्मनेपदं छान्दसम्। रोषं चकार (रणाय) रणं युद्धं नाशयितुम् ॥
इस भाष्य को एडिट करें