अथर्ववेद - काण्ड 20/ सूक्त 35/ मन्त्र 7
अ॒स्येदु॑ मा॒तुः सव॑नेषु स॒द्यो म॒हः पि॒तुं प॑पि॒वां चार्वन्ना॑। मु॑षा॒यद्विष्णुः॑ पच॒तं सही॑या॒न्विध्य॑द्वरा॒हं ति॒रो अद्रि॒मस्ता॑ ॥
स्वर सहित पद पाठअ॒स्य । इत् । ऊं॒ इति॑ । मा॒तु: । सव॑नेषु । स॒द्य: । म॒ह: । पि॒तुम् । प॒पि॒ऽवान् । चारु॑ । अन्ना॑ ॥ मु॒षा॒यत् । विष्णु॑: । प॒च॒तम् । सही॑यान् । विध्य॑त् । व॒रा॒हम् । ति॒र: । अद्रि॑म् । अस्ता॑ ॥३५.७॥
स्वर रहित मन्त्र
अस्येदु मातुः सवनेषु सद्यो महः पितुं पपिवां चार्वन्ना। मुषायद्विष्णुः पचतं सहीयान्विध्यद्वराहं तिरो अद्रिमस्ता ॥
स्वर रहित पद पाठअस्य । इत् । ऊं इति । मातु: । सवनेषु । सद्य: । मह: । पितुम् । पपिऽवान् । चारु । अन्ना ॥ मुषायत् । विष्णु: । पचतम् । सहीयान् । विध्यत् । वराहम् । तिर: । अद्रिम् । अस्ता ॥३५.७॥
अथर्ववेद - काण्ड » 20; सूक्त » 35; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(अस्य) संसारस्य (इत्) एव (उ) वितर्के (मातुः) निर्मातुः। रचकस्य परमेश्वरस्य (सवनेषु) ऐश्वर्येषु (सद्यः) समाने दिने। इदानीम् (महः) मह पूजायाम्-विट्। महतः। पूजनीयस्य (पितुम्) अ०४।६।३। पा पाने रक्षणे वा-तुप्रत्ययो धातोः पिभावः। पितुरित्यन्ननाम पातेर्वा पिबतेर्वा प्यायतेर्वा-निरु०९।२४। पानीयं रसम् (पपिवान्) अ०७।९७।३। पिबतेः क्वसु। पीतवान्। खादितवान् (चारु) विभक्तेर्लुक्। सुन्दरम् (अन्ना) अन्नानि (मुषायत्) मुष स्तेये-घञर्थे कविधानम्। सुप आत्मनः क्यच्। पा०३।१।८। मुष-क्यच्। नच्छन्दस्यपुत्रस्य। पा०७।४।३। ईत्ववद् दीर्घस्यापि प्रतिषेधे छान्दसो दीर्घः। अस्मात् क्यजन्तात् शतृ, नुमभावः। आत्मनः स्तेयमिच्छन् अपहरन् (विष्णुः) विद्यासु व्यापनशीलः (पचतम्) भृमृदृशियजिपर्विपच्यमि०। उ०३।११०। पचतेः-अतच्। शत्रूणां परिपक्वमन्नं धनं वा (सहीयान्) सोढृ-ईयसुन्। अतिशयेन अभिभविता, विजेता (विध्यत्) विध्यति। ताडयति (वराहम्) वृञ् वरणे-अप् अन्येष्वपि दृश्यते। पा०३।२।१०१। वर+आङ्+हृञ् नाशने वा हन हिंसागत्योः-डप्रत्ययः। वरस्य उत्कृष्टस्य पदार्थस्य आहर्तारम् आहन्तारं नाशयितारं शूकरमिव शत्रुम्। वराहो मेघो भवति वराहार… अयमपीतरो वराह एतस्मादेव। बृंहति मूलानि, वरं वरं मूलं बृंहतीति वा, अङ्गिरसोऽपि वाराहा उच्यन्ते-निरु०४। (तिरः) तिरस्कृत्य (अद्रिम्) वज्रम् (अस्ता) असु क्षेपणे-तृन्, इडभावः। न लोकाव्ययनिष्ठा०। पा०२।३।६९। षष्ठीप्रतिषेधः। प्रक्षेप्ता ॥
इस भाष्य को एडिट करें