अथर्ववेद - काण्ड 5/ सूक्त 17/ मन्त्र 1
सूक्त - मयोभूः
देवता - ब्रह्मजाया
छन्दः - त्रिष्टुप्
सूक्तम् - ब्रह्मजाया सूक्त
तेऽव॒दन्प्र॑थ॒मा ब्र॑ह्मकिल्बि॒षेऽकू॑पारः सलि॒लो मा॑तरिश्वा। वी॒डुह॑रा॒स्तप॑ उ॒ग्रं म॑यो॒भूरापो॑ दे॒वीः प्र॑थम॒जा ऋ॒तस्य॑ ॥
स्वर सहित पद पाठते । अ॒व॒दन्। प्र॒थ॒मा: । ब्र॒ह्म॒ऽकि॒ल्बि॒षे । अकू॑पार: । स॒लि॒ल: । मा॒त॒रिश्वा॑ । वी॒डुऽह॑रा: । तप॑: । उ॒ग्रम् । म॒य॒:ऽभू: । आप॑: । दे॒वी:। प्र॒थ॒म॒ऽजा: । ऋ॒तस्य॑ ॥१७.१॥
स्वर रहित मन्त्र
तेऽवदन्प्रथमा ब्रह्मकिल्बिषेऽकूपारः सलिलो मातरिश्वा। वीडुहरास्तप उग्रं मयोभूरापो देवीः प्रथमजा ऋतस्य ॥
स्वर रहित पद पाठते । अवदन्। प्रथमा: । ब्रह्मऽकिल्बिषे । अकूपार: । सलिल: । मातरिश्वा । वीडुऽहरा: । तप: । उग्रम् । मय:ऽभू: । आप: । देवी:। प्रथमऽजा: । ऋतस्य ॥१७.१॥
अथर्ववेद - काण्ड » 5; सूक्त » 17; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(ते) प्रसिद्धा देवाः (अवदन्) अकथयन् (प्रथमाः) मुख्याः (ब्रह्मकिल्विषे) किलेर्बुक् च। उ० १।५०। इति किल श्वैत्यक्रीडनयोः−टिषच्, बुक् च। किल्विषं किल्भिदं सुकृतकर्मणो भयं कीर्तिमस्य भिनत्तीति वा−निरु० ११।२४। ब्रह्मणो ब्रह्मवादिनः पुरुषस्य अपराधविषये (अकूपारः) अ+कु+पॄ पालनपूरणयोः−घञ्। पारः पालनं पूरणं वा। आदित्योऽप्यकूपार उच्यतेऽकूपारो भवति दूरपारः समुद्रगोऽप्यकूपार उच्यतेऽकूपारो भवति महापारः−निरु० ४।१८। अकुत्सितपारो महागतिरादित्यः (सलिलः) सलिलम् उदकनाम−निघ० १।१२। अर्शआद्यच्। जलवान् समुद्रः (मातरिश्वा) अ० ५।१०।८। आकाशे गमनशीलो वायुः (विडुहराः) वीलयति संस्तम्भकर्मा−निरु० ५।१६। भृमृशीङ्०। उ० १।७। इति वील−उ। वीलु बलनाम−निघ० २।९। हृञ् हरणे−असुन्। हरो हरतेर्ज्योतिः−निरु० ४।१९। दृढतेजस्कः (तपः) तप−असुन्। अग्निः (उग्रम्) प्रचण्डम् (मयोभूः) मयसः सुखस्य भावयिता (आपः) आप् आप्नोतेः−निरु० ९।२४। व्यापिकाः सृष्ट्यः (देवीः) देव्यः। दिव्यगुणाः (प्रथमजाः) प्रथमोत्पन्ना (ऋतस्य) सत्यस्वरूपस्य परमात्मनः ॥
इस भाष्य को एडिट करें