Loading...
अथर्ववेद > काण्ड 5 > सूक्त 17

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 17/ मन्त्र 4
    सूक्त - मयोभूः देवता - ब्रह्मजाया छन्दः - त्रिष्टुप् सूक्तम् - ब्रह्मजाया सूक्त

    यामा॒हुस्तार॑कै॒षा वि॑के॒शीति॑ दु॒च्छुनां॒ ग्राम॑मव॒पद्य॑मानाम्। सा ब्र॑ह्मजा॒या वि दु॑नोति रा॒ष्ट्रं यत्र॒ प्रापा॑दि श॒श उ॑ल्कु॒षीमा॑न् ॥

    स्वर सहित पद पाठ

    याम् । आ॒हु: । तार॑का । ए॒षा । वि॒ऽके॒शी । इति॑ । दु॒च्छु॒ना॑म्। ग्राम॑म् । अ॒व॒ऽपद्य॑मानाम् । सा । ब्र॒ह्म॒ऽजा॒या । वि । दु॒नो॒ति॒। रा॒ष्ट्रम् । यत्र॑ । प्र॒ऽअपा॑दि । श॒श: । उ॒ल्कु॒षीऽमा॑न् ॥१७.४॥


    स्वर रहित मन्त्र

    यामाहुस्तारकैषा विकेशीति दुच्छुनां ग्राममवपद्यमानाम्। सा ब्रह्मजाया वि दुनोति राष्ट्रं यत्र प्रापादि शश उल्कुषीमान् ॥

    स्वर रहित पद पाठ

    याम् । आहु: । तारका । एषा । विऽकेशी । इति । दुच्छुनाम्। ग्रामम् । अवऽपद्यमानाम् । सा । ब्रह्मऽजाया । वि । दुनोति। राष्ट्रम् । यत्र । प्रऽअपादि । शश: । उल्कुषीऽमान् ॥१७.४॥

    अथर्ववेद - काण्ड » 5; सूक्त » 17; मन्त्र » 4

    टिप्पणीः - ४−(याम्) (आहुः) ब्रुवन्ति (तारका) तॄ तरणे−ण्वुल्, टाप्। नक्षत्रम् (एषा) समीपस्था (विकेशी) वि+काशृ दीप्तौ−अच्, ङीप्, आकारस्य एकारः। केशी केशा रश्मयस्तैस्तद्वान् भवति काशनाद्वा प्रकाशनाद्वा−निरु० १२।२५। विरुद्धप्रकाशयुक्ता (इति) प्रकरणसमाप्तौ (दुच्छुनाम्) टुदु उपतापे−क्विप्। शुन गतौ−क, टाप्। दुष्टां गतिम्। अविद्याम् (ग्रामम्) वसतिम् (अवपद्यमानाम्) अधोगच्छन्तीम् (सा) (ब्रह्मजाया) म० २। वेदविद्या (वि) विरोधे (दुनोति) उपतापयति (राष्ट्रम्) राज्यम् (यत्र) यस्मिन् राज्ये (प्र) प्रकर्षेण (अपादि) प्राप्तः (शशः) शश प्लुतगतौ−अच्। गतिशीलमुल्कारूपं नक्षत्रम्। विरुद्धज्ञानमित्यर्थः (उल्कुषीमान्) उल दाहे−क्विप्, कुष निष्कर्षे−क, ङीप्, मतुप्। कुषी कोषः। उलां उल्कानां कुष्या कोषेण संग्रहेण युक्तः ॥

    इस भाष्य को एडिट करें
    Top