अथर्ववेद - काण्ड 5/ सूक्त 17/ मन्त्र 7
सूक्त - मयोभूः
देवता - ब्रह्मजाया
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मजाया सूक्त
ये गर्भा॑ अव॒पद्य॑न्ते॒ जग॒द्यच्चा॑पलु॒प्यते॑। वी॒रा ये तृ॒ह्यन्ते॑ मि॒थो ब्र॑ह्मजा॒या हि॑नस्ति॒ तान् ॥
स्वर सहित पद पाठये । गर्भा॑: । अ॒व॒ऽपद्य॑न्ते । जग॑त् । यत् । च॒ । अ॒प॒ऽलु॒प्यते॑ । वी॒रा: । ये । तृ॒ह्यन्ते॑ । मि॒थ: । ब्र॒ह्म॒ऽजा॒या । हि॒न॒स्ति॒ । तान् ॥१७.७॥
स्वर रहित मन्त्र
ये गर्भा अवपद्यन्ते जगद्यच्चापलुप्यते। वीरा ये तृह्यन्ते मिथो ब्रह्मजाया हिनस्ति तान् ॥
स्वर रहित पद पाठये । गर्भा: । अवऽपद्यन्ते । जगत् । यत् । च । अपऽलुप्यते । वीरा: । ये । तृह्यन्ते । मिथ: । ब्रह्मऽजाया । हिनस्ति । तान् ॥१७.७॥
अथर्ववेद - काण्ड » 5; सूक्त » 17; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(ये) (गर्भाः) भ्रूणाः (अवपद्यन्ते) अधः पतन्ति (जगत्) जङ्गमं पश्वादिवृन्दम् (यत्) (च) (अपलुप्यते) अव छिद्यते (वीराः) शूराः (ये) (तृह्यन्ते) हिंस्यन्ते (मिथः) परस्परम् (ब्रह्मजाया) म० २। सा अपनीता ब्रह्मविद्या (हिनस्ति) नाशयति (तान्) पूर्वोक्तान् ॥
इस भाष्य को एडिट करें