अथर्ववेद - काण्ड 5/ सूक्त 17/ मन्त्र 6
सूक्त - मयोभूः
देवता - ब्रह्मजाया
छन्दः - त्रिष्टुप्
सूक्तम् - ब्रह्मजाया सूक्त
दे॒वा वा ए॒तस्या॑मवदन्त॒ पूर्वे॑ सप्तऋ॒षय॒स्तप॑सा॒ ये नि॑षे॒दुः। भी॒मा जा॒या ब्रा॑ह्म॒णस्योप॑नीता दु॒र्धां द॑धाति पर॒मे व्यो॑मन् ॥
स्वर सहित पद पाठदे॒वा: । वै । ए॒तस्या॑म् ।अ॒व॒द॒न्त॒ । पूर्वे॑ । स॒प्त॒ऽऋ॒षय॑: । तप॑सा । ये । नि॒ऽसे॒दु: । भी॒मा । जा॒या । ब्रा॒ह्म॒णस्य॑ । अप॑ऽनीता । दु॒:ऽधाम् । द॒धा॒ति॒ । प॒र॒मे । विऽओ॑मन् ॥१७.६॥
स्वर रहित मन्त्र
देवा वा एतस्यामवदन्त पूर्वे सप्तऋषयस्तपसा ये निषेदुः। भीमा जाया ब्राह्मणस्योपनीता दुर्धां दधाति परमे व्योमन् ॥
स्वर रहित पद पाठदेवा: । वै । एतस्याम् ।अवदन्त । पूर्वे । सप्तऽऋषय: । तपसा । ये । निऽसेदु: । भीमा । जाया । ब्राह्मणस्य । अपऽनीता । दु:ऽधाम् । दधाति । परमे । विऽओमन् ॥१७.६॥
अथर्ववेद - काण्ड » 5; सूक्त » 17; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(देवाः) दिव्यगुणा विद्वांसः (वै) निश्चयेन (एतस्याम्) ब्रह्मविद्यायाम् (अवदन्त) अवदन्। अवोचन् (पूर्वे) पूर्वस्मिन् काले (सप्त ऋषयः) अ० ४।११।९। सप्त ऋषयः पडिन्द्रियाणि विद्या सप्तमी−निरु०। १२।३७। ऋषिर्दर्शनात्−१।२०। सप्तभिस्त्वक्चक्षुःश्रवणरसनाघ्राणमनोबुद्धिभिः दर्शकाः (तपसा) तपश्चरणेन (ये) देवाः (निषेदुः) निषण्णा बभूव (भीमाः) भयङ्करा सती (जाया) म० २। जायतिर्गतिकर्मा−निघ० २।१४। जायति जानाति यया सा। विद्या (ब्राह्मणस्य) ब्रह्मन्−अण्। वेदाधिपतेः परमेश्वरस्य (अपनीता) अपनीतिं कुनीतिं खण्डनं वा गता (दुर्धाम्) दुर्+डुधाञ् धारणपोषणयोः−अङ्, टाप्। कष्टेन धरणीयाम्। दुर्व्यवस्थाम् (दधाति) धरति। स्थापयति (परमे) उत्तमे (व्योमन्) वि+अव−मनिन्। सप्तमीलोपः। व्यवने−निरु० ११।४०। विविधं रक्षणीये स्थाने ॥
इस भाष्य को एडिट करें