अथर्ववेद - काण्ड 5/ सूक्त 17/ मन्त्र 3
सूक्त - मयोभूः
देवता - ब्रह्मजाया
छन्दः - त्रिष्टुप्
सूक्तम् - ब्रह्मजाया सूक्त
हस्ते॑नै॒व ग्रा॒ह्य॑ आ॒धिर॑स्या ब्रह्मजा॒येति॒ चेदवो॑चत्। न दू॒ताय॑ प्र॒हेया॑ तस्थ ए॒षा तथा॑ रा॒ष्ट्रं गु॑पि॒तं क्ष॒त्रिय॑स्य ॥
स्वर सहित पद पाठहस्ते॑न । ए॒व । ग्रा॒ह्य᳡: । आ॒ऽधि: । अ॒स्या॒: । ब्र॒ह्म॒ऽजा॒या । इति॑ । च॒ । इत् । अवो॑चत् । न । दू॒ताय॑ । प्र॒ऽहेया॑ । त॒स्थे॒ । ए॒षा । तथा॑ । रा॒ष्ट्रम् । गु॒पि॒तम् । क्ष॒त्रिय॑स्य ॥१७.३॥
स्वर रहित मन्त्र
हस्तेनैव ग्राह्य आधिरस्या ब्रह्मजायेति चेदवोचत्। न दूताय प्रहेया तस्थ एषा तथा राष्ट्रं गुपितं क्षत्रियस्य ॥
स्वर रहित पद पाठहस्तेन । एव । ग्राह्य: । आऽधि: । अस्या: । ब्रह्मऽजाया । इति । च । इत् । अवोचत् । न । दूताय । प्रऽहेया । तस्थे । एषा । तथा । राष्ट्रम् । गुपितम् । क्षत्रियस्य ॥१७.३॥
अथर्ववेद - काण्ड » 5; सूक्त » 17; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(हस्तेन) पाणिना दृढतया, इत्यर्थः (एव) अवश्यम् (ग्राह्यः) ग्रह-ण्यत्। ग्रहीतव्यः (आधिः) उपसर्गे घोः किः। पा० ३।३।९२। इति आङ्+डुधाञ् धारणपोषणयोः−कि। आधारः। आश्रयः (अस्याः) ब्रह्मविद्यायाः (ब्रह्मजाया) म० २ ब्रह्मविद्या। वेदविद्या (इति) एवं प्रकारेण (च) (इत्) एव (अवोचत्) अवर्ण्यत् (न) निषेधे (दूताय) अ० १।७।६। टुदु उपतापे−कर्त्तरि क्त। उपतापकाय मनुष्याय (प्रहेया) ओहाक् त्यागे−यत् प्रकर्षेण त्याज्या दातव्या (तस्थे) तिष्ठतेर्लिटि। स्थिता बभूव (एषा) ब्रह्मविद्या (तथा) तस्मात्कारणात् (राष्ट्रम्) स० १।२९।१। राज्यम् (गुपितम्) रक्षितम् (क्षत्रियस्य) राज्ञः ॥
इस भाष्य को एडिट करें