Loading...
अथर्ववेद > काण्ड 5 > सूक्त 17

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 17/ मन्त्र 15
    सूक्त - मयोभूः देवता - ब्रह्मजाया छन्दः - अनुष्टुप् सूक्तम् - ब्रह्मजाया सूक्त

    नास्य॑ श्वे॒तः कृ॑ष्ण॒कर्णो॑ धु॒रि यु॒क्तो म॑हीयते। यस्मि॑न्रा॒ष्ट्रे नि॑रु॒ध्यते॑ ब्रह्मजा॒याचि॑त्त्या ॥

    स्वर सहित पद पाठ

    न । अ॒स्य॒ । श्वे॒त: । कृ॒ष्ण॒ऽकर्ण॑: । धु॒रि । यु॒क्त: । म॒ही॒य॒ते॒ । यस्मि॑न् । रा॒ष्ट्रे । नि॒ऽरु॒ध्यते॑ । ब्र॒ह्म॒ऽजा॒या । अचि॑त्त्या ॥१७.१५॥


    स्वर रहित मन्त्र

    नास्य श्वेतः कृष्णकर्णो धुरि युक्तो महीयते। यस्मिन्राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥

    स्वर रहित पद पाठ

    न । अस्य । श्वेत: । कृष्णऽकर्ण: । धुरि । युक्त: । महीयते । यस्मिन् । राष्ट्रे । निऽरुध्यते । ब्रह्मऽजाया । अचित्त्या ॥१७.१५॥

    अथर्ववेद - काण्ड » 5; सूक्त » 17; मन्त्र » 15

    टिप्पणीः - १५−(न) निषेधे (अस्य) (श्वेतः) शुक्लवर्णः (कृष्णकर्णः) श्यामकर्णोऽश्वः (धुरि) धुर्व हिंसायाम्−क्विप्। यानमुखे (युक्तः) युगं गतः (महीयते) महीङ् पूजायाम्। पूज्यते स्तूयते ॥

    इस भाष्य को एडिट करें
    Top