अथर्ववेद - काण्ड 5/ सूक्त 17/ मन्त्र 2
सूक्त - मयोभूः
देवता - ब्रह्मजाया
छन्दः - त्रिष्टुप्
सूक्तम् - ब्रह्मजाया सूक्त
सोमो॒ राजा॑ प्रथ॒मो ब्र॑ह्मजा॒यां पुनः॒ प्राय॑च्छ॒दहृ॑णीयमानः। अ॑न्वर्ति॒ता वरु॑णो मि॒त्र आ॑सीद॒ग्निर्होता॑ हस्त॒गृह्या नि॑नाय ॥
स्वर सहित पद पाठसोम॑: । राजा॑ । प्र॒थ॒म: । ब्र॒ह्म॒ऽजा॒याम् । पुन॑: । प्र । अ॒य॒च्छ॒त् । अहृ॑णीयमान: । अ॒नु॒ऽअ॒र्ति॒ता । वरु॑ण: । मि॒त्र: । आ॒सी॒त् । अ॒ग्नि: । होता॑ । ह॒स्त॒ऽगुह्य॑ । आ । नि॒ना॒य॒ ॥१७.२॥
स्वर रहित मन्त्र
सोमो राजा प्रथमो ब्रह्मजायां पुनः प्रायच्छदहृणीयमानः। अन्वर्तिता वरुणो मित्र आसीदग्निर्होता हस्तगृह्या निनाय ॥
स्वर रहित पद पाठसोम: । राजा । प्रथम: । ब्रह्मऽजायाम् । पुन: । प्र । अयच्छत् । अहृणीयमान: । अनुऽअर्तिता । वरुण: । मित्र: । आसीत् । अग्नि: । होता । हस्तऽगुह्य । आ । निनाय ॥१७.२॥
अथर्ववेद - काण्ड » 5; सूक्त » 17; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(सोमः) परमैश्वर्यवान् परमात्मा (राजा) शासकः (प्रथमः) मुख्यः (ब्रह्मजायाम्) जनेर्यक्। उ० ५।१११। इति जन जनने−यक् आत्वम्, टाप् च। यद्वा। जायतिर्गतिकर्मा−निघ० २।१४। जै गतौ−घञ्, टाप्। ये धातवो गत्यर्थास्ते ज्ञानार्थाः। जनयति उत्पादयति सुखानि या, यद्वा, जायति जानाति यया सा जाया विद्या। ब्रह्मणः परमेश्वरस्य जायां वेदविद्याम् (पुनः) अवश्यम् (प्र) प्रकर्षेण (अयच्छत्) अदात् (अहृणीयमानः) हृणीङ् रोषे लज्जायां च−शानच्। अक्रुध्यन् (अन्वर्तिता) ऋत गतौ−तृच्। अनुकूलं गन्ता (वरुणः) श्रेष्ठः (मित्रः) प्रेरकः (आसीत्) अभवत् (अग्निः) ज्ञानवान् पुरुषः (होता) आदाता (हस्तगृह्य) नित्यं हस्ते पाणावुपयमने। पा० १।४।७७। इति हस्ते शब्दस्य गतिसंज्ञायां ग्रह−ल्यप्, एकारलोपश्छान्दसः। हस्ते गृहीत्वा (आ निनाय) आनीतवान् ॥
इस भाष्य को एडिट करें