अथर्ववेद - काण्ड 5/ सूक्त 17/ मन्त्र 16
सूक्त - मयोभूः
देवता - ब्रह्मजाया
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मजाया सूक्त
नास्य॒ क्षेत्रे॑ पुष्क॒रिणी॑ ना॒ण्डीकं॑ जायते॒ बिस॑म्। यस्मि॑न्रा॒ष्ट्रे नि॑रु॒ध्यते॑ ब्रह्मजा॒याचि॑त्त्या ॥
स्वर सहित पद पाठन । अ॒स्य॒ । क्षेत्रे॑ । पु॒ष्क॒रिणी॑ । न । आ॒ण्डीक॑म् । जा॒य॒ते॒ । बिस॑म् । यस्मि॑न् । रा॒ष्ट्रे । नि॒ऽरु॒ध्यते॑ । ब्र॒ह्म॒ऽजा॒या । अचि॑त्त्या ॥१७.१६॥
स्वर रहित मन्त्र
नास्य क्षेत्रे पुष्करिणी नाण्डीकं जायते बिसम्। यस्मिन्राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥
स्वर रहित पद पाठन । अस्य । क्षेत्रे । पुष्करिणी । न । आण्डीकम् । जायते । बिसम् । यस्मिन् । राष्ट्रे । निऽरुध्यते । ब्रह्मऽजाया । अचित्त्या ॥१७.१६॥
अथर्ववेद - काण्ड » 5; सूक्त » 17; मन्त्र » 16
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १६−(न) (अस्य) (क्षेत्रे) शस्योत्पत्तिस्थाने (पुष्करिणी) अ० ४।३४।५। पुष पुष्टौ−करन्। पुष्करं पोषणमस्त्यत्र, पुष्कर−इनि। पोषणवती शक्तिः (न) निषेधे (आण्डीकम्) ञमन्ताड् डः। उ० १।११४। इति अम गतौ−ड। अण्ड−ईकञ्। प्राप्तियोग्यम्। (जायते) उत्पद्यते (बिसम्) अ० ४।३४।५। बलकरं वस्तु ॥
इस भाष्य को एडिट करें