अथर्ववेद - काण्ड 5/ सूक्त 17/ मन्त्र 10
सूक्त - मयोभूः
देवता - ब्रह्मजाया
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मजाया सूक्त
पुन॒र्वै दे॒वा अ॑ददुः॒ पुन॑र्मनु॒ष्या॑ अददुः। राजा॑नः स॒त्यं गृ॑ह्णा॒ना ब्र॑ह्मजा॒यां पुन॑र्ददुः ॥
स्वर सहित पद पाठपुन॑: । वै । दे॒वा: । अ॒द॒दु॒: । पुन॑: । म॒नु॒ष्या᳡: । अ॒द॒दु॒: । राजा॑न: । स॒त्यम् । गृ॒ह्णा॒ना: । ब्र॒ह्म॒ऽजा॒याम् । पुन॑: । द॒दु॒: ॥१७.१०॥
स्वर रहित मन्त्र
पुनर्वै देवा अददुः पुनर्मनुष्या अददुः। राजानः सत्यं गृह्णाना ब्रह्मजायां पुनर्ददुः ॥
स्वर रहित पद पाठपुन: । वै । देवा: । अददु: । पुन: । मनुष्या: । अददु: । राजान: । सत्यम् । गृह्णाना: । ब्रह्मऽजायाम् । पुन: । ददु: ॥१७.१०॥
अथर्ववेद - काण्ड » 5; सूक्त » 17; मन्त्र » 10
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १०−(पुनः वै) अवश्यमेव (देवाः) सूर्यादयो लोकाः (अददुः) अदुः। दत्तवन्तः (पुनः) (मनुष्याः) (अददुः) (राजानः) ऐश्वर्यवन्तः (सत्यम्) याथातथ्यम् (गृह्णानाः) स्वीकुर्वाणाः (ब्रह्मजायाम्) म० २। वेदविद्याम् (पुनः) अवश्यम् (ददुः) दत्तवन्तः ॥
इस भाष्य को एडिट करें