Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 6/ मन्त्र 17
    सूक्त - मातृनामा देवता - मातृनामा अथवा मन्त्रोक्ताः छन्दः - सप्तपदा जगती सूक्तम् - गर्भदोषनिवारण सूक्त

    उ॑द्ध॒र्षिणं॒ मुनि॑केशं ज॒म्भय॑न्तं मरी॒मृशम्। उ॒पेष॑न्तमुदु॒म्बलं॑ तु॒ण्डेल॑मु॒त शालु॑डम्। प॒दा प्र वि॑ध्य॒ पार्ष्ण्या॑ स्था॒लीं गौरि॑व स्पन्द॒ना ॥

    स्वर सहित पद पाठ

    उ॒त्ऽह॒र्षिण॑म् । मुनि॑ऽकेशम् । ज॒म्भय॑न्तम् । म॒री॒मृ॒शम् । उ॒प॒ऽएष॑न्तम् । उ॒दु॒म्बल॑म् । तु॒ण्डेल॑म् । उ॒त । शालु॑डम् । प॒दा । प्र । वि॒ध्य॒ । पार्ष्ण्या॑ । स्था॒लीम् । गौ:ऽइ॑व । स्प॒न्द॒ना ॥६.१७॥


    स्वर रहित मन्त्र

    उद्धर्षिणं मुनिकेशं जम्भयन्तं मरीमृशम्। उपेषन्तमुदुम्बलं तुण्डेलमुत शालुडम्। पदा प्र विध्य पार्ष्ण्या स्थालीं गौरिव स्पन्दना ॥

    स्वर रहित पद पाठ

    उत्ऽहर्षिणम् । मुनिऽकेशम् । जम्भयन्तम् । मरीमृशम् । उपऽएषन्तम् । उदुम्बलम् । तुण्डेलम् । उत । शालुडम् । पदा । प्र । विध्य । पार्ष्ण्या । स्थालीम् । गौ:ऽइव । स्पन्दना ॥६.१७॥

    अथर्ववेद - काण्ड » 8; सूक्त » 6; मन्त्र » 17

    टिप्पणीः - १७−(उद्धर्षिणम्) उत्+हृषु अलीके मिथ्याकरणे-णिनि। अतिमिथ्यावादिनम् (मुनिकेशम्) मनेरुच्च। उ० ४।१२३। मन ज्ञाने-इन्, अस्य उकारः। क्लिशेरन् लो लोपश्च। उ० ५।३३। क्लिशू विबाधने-अन्, ललोपः। मुनीनां मननशीलानां विदुषां क्लेशकम् (जम्भयन्तम्) जभि नाशने-शतृ। नाशयन्तम् (मरीमृशम्) मृश स्पर्शे यङ्लुकि-अच्। रीगृदुपधस्य च। पा० ७।१।९०। इति रीक्। अत्यन्तस्पर्शकम् (उपेषन्तम्) जॄविशिभ्यां झच्। उ० १२६। उप अधिके+इष गतौ−झच्। एङि पररूपम्। पा० ६।१।९४। अधिकमेषन्तं गतिशीलम् (उदुम्बलम्) पॄभिदिव्यधि०। उ० १।२३। उड संहतौ संहनने, सौत्रो धातुः-कु। संज्ञायां भृतॄवृ०। पा० ३।२।४६। वृञ् वरणे-खच्, मुम् च। डस्य दः वस्य बः, रस्य लः। उडुंवरम्। संहननस्वीकर्तारम् (तुण्डेलम्) तुडि दारणे हिंसने च-अच्+इल प्रेरणे-क। हिंसाप्रेरकम् (उत) अपि च (शालुडम्) असेरुरन्। उ० १।४२। शाल कत्थने-उरन्, रस्य डः। आत्मश्लाघिनम् (पदा) पादेन (प्र) प्रकर्षेण (विध्य) ताडय (पार्ष्ण्या) अ० २।३३।५। गुल्फस्याधोभागेन (स्थालीम्) स्थाचतिमृजेरालज्०। उ० १।११६। ष्ठा गतिनिवृत्तौ-आलच्, गौरादित्वाद् ङीष्। पात्रम् (गौः) (इव) यथा (स्पन्दना) बहुलमन्यत्रापि। उ० २।७८। स्पदि किञ्चिच्चलने-युच्, टाप्। चलनशीला ॥

    इस भाष्य को एडिट करें
    Top