अथर्ववेद - काण्ड 8/ सूक्त 6/ मन्त्र 3
सूक्त - मातृनामा
देवता - मातृनामा अथवा मन्त्रोक्ताः
छन्दः - अनुष्टुप्
सूक्तम् - गर्भदोषनिवारण सूक्त
मा सं वृ॑तो॒ मोप॑ सृप ऊ॒रू माव॑ सृपोऽन्त॒रा। कृ॒णोम्य॑स्यै भेष॒जं ब॒जं दु॑र्णाम॒चात॑नम् ॥
स्वर सहित पद पाठमा । सम् । वृ॒त॒: । मा । उप॑ । सृ॒प॒: । ऊ॒रू इति॑ । मा । अव॑ । सृ॒प॒: । अ॒न्त॒रा । कृ॒णोमि॑ । अ॒स्यै॒ । भे॒ष॒जम् । ब॒जम् । दु॒र्ना॒म॒ऽचात॑नम् ॥६.३॥
स्वर रहित मन्त्र
मा सं वृतो मोप सृप ऊरू माव सृपोऽन्तरा। कृणोम्यस्यै भेषजं बजं दुर्णामचातनम् ॥
स्वर रहित पद पाठमा । सम् । वृत: । मा । उप । सृप: । ऊरू इति । मा । अव । सृप: । अन्तरा । कृणोमि । अस्यै । भेषजम् । बजम् । दुर्नामऽचातनम् ॥६.३॥
अथर्ववेद - काण्ड » 8; सूक्त » 6; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(मा सम् वृतः) द्युद्भ्यो लुङि। पा० १।३।९१। इति वृतु वर्तने परस्मैपदम्, द्युतादित्वाद् अङ्। संवर्तनं मा कुरु (मोप सृपः) उपसर्पणं मा कार्षीः (ऊरू अन्तरा) अन्तरान्तरेण युक्ते। पा० २।३।४। इति द्वितीया। जानूपरिभागयोर्मध्ये (माव सृपः) अवाक् सर्पणं मा कुरु (कृणोमि) करोमि (अस्यै) गर्भिण्यै (भेषजम्) औषधम् (बजम्) वज गतौ-अच्, वस्य बः। बलकरम् (दुर्णामचातनम्) चातयतिर्नाशने-निरु० ६।३०। अतिकठिनरोगस्य विनाशकम् ॥
इस भाष्य को एडिट करें