अथर्ववेद - काण्ड 8/ सूक्त 6/ मन्त्र 19
सूक्त - मातृनामा
देवता - मातृनामा अथवा मन्त्रोक्ताः
छन्दः - अनुष्टुप्
सूक्तम् - गर्भदोषनिवारण सूक्त
ये अ॒म्नो ज॒तान्मा॒रय॑न्ति॒ सूति॑का अनु॒शेर॑ते। स्त्रीभा॑गान्पि॒ङ्गो ग॑न्ध॒र्वान्वातो॑ अ॒भ्रमि॑वाजतु ॥
स्वर सहित पद पाठये । अ॒म्न: । जा॒तान् । मा॒रय॑न्ति । सूति॑का: । अ॒नु॒ऽशेर॑ते । स्त्रीऽभा॑गान् । पि॒ङ्ग: । ग॒न्ध॒र्वान् । वात॑: । अ॒भ्रम्ऽइ॑व । अ॒ज॒तु॒ ॥६.१९॥
स्वर रहित मन्त्र
ये अम्नो जतान्मारयन्ति सूतिका अनुशेरते। स्त्रीभागान्पिङ्गो गन्धर्वान्वातो अभ्रमिवाजतु ॥
स्वर रहित पद पाठये । अम्न: । जातान् । मारयन्ति । सूतिका: । अनुऽशेरते । स्त्रीऽभागान् । पिङ्ग: । गन्धर्वान् । वात: । अभ्रम्ऽइव । अजतु ॥६.१९॥
अथर्ववेद - काण्ड » 8; सूक्त » 6; मन्त्र » 19
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १९−(ये) (अम्नः) धापॄवस्य०। उ० ३।६। अम-पीडने-न प्रत्ययः, जसः सुः। अम्नाः पीडका रोगाः (जातान्) उत्पन्नान् बालकान् (मारयन्ति) विनाशयन्ति (सूतिकाः) षूङ् प्राणिप्रसवे-क्त, कन्, अत इत्वम्। नवप्रसूताः स्त्रीः (अनुशेरते) अनुपूर्वः शीङ् अनुशये, अत्यन्तद्वेषे। अत्यन्तं द्विषन्ति (स्त्रीभागान्) स्त्रीसेवनान् (पिङ्गः) म० ६। पराक्रमी पुरुषः (गन्धर्वान्) अ० २।१।२। गन्ध अर्दने-अच्+अर्व हिंसायाम्-अच्। शकन्ध्वादित्वात् पररूपम्। दुःखदायिनश्च ते पीडकाश्च ते तान् दुःखदायिपीडकान् (वातः) वायुः (अभ्रम्) अप्+भृ-क, यद्वा अभ्र गतौ-क। मेघम् (इव) (अजतु) क्षिपतु ॥
इस भाष्य को एडिट करें