अथर्ववेद - काण्ड 8/ सूक्त 6/ मन्त्र 14
सूक्त - मातृनामा
देवता - मातृनामा अथवा मन्त्रोक्ताः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - गर्भदोषनिवारण सूक्त
ये पूर्वे॑ व॒ध्वो॒ यन्ति॒ हस्ते॒ शृङ्गा॑णि॒ बिभ्र॑तः। आ॑पाके॒स्थाः प्र॑हा॒सिन॑ स्त॒म्बे ये कु॒र्वते॒ ज्योति॒स्तानि॒तो ना॑शयामसि ॥
स्वर सहित पद पाठये । पूर्वे॑ । व॒ध्व᳡: । यन्ति॑ । हस्ते॑ । शृङ्गा॑णि । बिभ्र॑त: । आ॒पा॒के॒ऽस्था: । प्र॒ऽहा॒सिन॑: । स्त॒म्बे । ये । कु॒र्वते॑ । ज्योति॑: । तान् । इ॒त: । ना॒श॒या॒म॒सि॒ ॥६.१४॥
स्वर रहित मन्त्र
ये पूर्वे वध्वो यन्ति हस्ते शृङ्गाणि बिभ्रतः। आपाकेस्थाः प्रहासिन स्तम्बे ये कुर्वते ज्योतिस्तानितो नाशयामसि ॥
स्वर रहित पद पाठये । पूर्वे । वध्व: । यन्ति । हस्ते । शृङ्गाणि । बिभ्रत: । आपाकेऽस्था: । प्रऽहासिन: । स्तम्बे । ये । कुर्वते । ज्योति: । तान् । इत: । नाशयामसि ॥६.१४॥
अथर्ववेद - काण्ड » 8; सूक्त » 6; मन्त्र » 14
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १४−(ये) क्रमयः (पूर्वे) अग्रे (वध्वः) आडभावः। वध्वाः। स्त्रियाः (यन्ति) गच्छन्ति (हस्ते) करे (शृङ्गाणि) शृणातेर्ह्रस्वश्च। उ० १।१२६। श्रॄ हिंसायाम्-गन् नुट् च। हिंसाकर्माणि (बिभ्रतः) धारयन्तः (आपाकेष्ठाः) पाकशालायां कुम्भकारस्य मृत्पात्रपाकस्थाने वा स्थिताः (प्रहासिनः) अट्टहासं कुर्वन्त इव (स्तम्बे) अ० ८।६।५। स्थितिस्थाने (ये) (कुर्वते) उत्पादयन्ति (ज्योतिः) अ० १।९।१। ज्वालाम्। ज्वलनम्। पीडनम् (तान्) क्रमीन् (इतः) अस्मात् स्थानात् (नाशयामसि) ॥
इस भाष्य को एडिट करें