अथर्ववेद - काण्ड 8/ सूक्त 6/ मन्त्र 4
सूक्त - मातृनामा
देवता - मातृनामा अथवा मन्त्रोक्ताः
छन्दः - अनुष्टुप्
सूक्तम् - गर्भदोषनिवारण सूक्त
दु॒र्णामा॑ च सु॒नामा॑ चो॒भा सं॒वृत॑मिच्छतः। अ॒राया॒नप॑ हन्मः सु॒नामा॒ स्त्रैण॑मिच्छताम् ॥
स्वर सहित पद पाठदु॒:ऽनामा॑ । च॒ । सु॒ऽनाम॑ । च॒ । उ॒भा । स॒म्ऽवृत॑म् । इ॒च्छ॒त॒:। अ॒राया॑न् । अप॑ । ह॒न्म॒: । सु॒ऽनामा॑ । स्त्रैण॑म् । इ॒च्छ॒ता॒म् ॥६.४॥
स्वर रहित मन्त्र
दुर्णामा च सुनामा चोभा संवृतमिच्छतः। अरायानप हन्मः सुनामा स्त्रैणमिच्छताम् ॥
स्वर रहित पद पाठदु:ऽनामा । च । सुऽनाम । च । उभा । सम्ऽवृतम् । इच्छत:। अरायान् । अप । हन्म: । सुऽनामा । स्त्रैणम् । इच्छताम् ॥६.४॥
अथर्ववेद - काण्ड » 8; सूक्त » 6; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(दुर्णामा) म० १। दुष्टरोगः (च) (सुनामा) सुभगः। स्वस्थभावः (च) (उभा) द्वौ (संवृतम्) वृतु वर्तने-क्विप्। समीपवर्तनम् (इच्छतः) (अरायान्) अ० २।२५।३। अलक्ष्मीकान् रोगान् (अप हन्मः) विनाशयामः (सुनामा) (स्रैणम्) स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्। पा० ४।१।८७। स्त्री-नञ्। स्त्रीसम्बन्धि शरीरम् (इच्छताम्) आत्मनेपदं छान्दसम्। इच्छत् ॥
इस भाष्य को एडिट करें