Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 6/ मन्त्र 26
    सूक्त - मातृनामा देवता - मातृनामा अथवा मन्त्रोक्ताः छन्दः - अनुष्टुप् सूक्तम् - गर्भदोषनिवारण सूक्त

    अ॑प्र॒जास्त्वं॒ मार्त॑वत्स॒माद्रोद॑म॒घमा॑व॒यम्। वृ॒क्षादि॑व॒ स्रजं॑ कृ॒त्वाप्रि॑ये॒ प्रति॑ मुञ्च॒ तत् ॥

    स्वर सहित पद पाठ

    अ॒प्र॒जा:ऽत्वम् । मार्त॑ऽवत्सम् । आत् । रोद॑म् । अ॒घम् । आ॒ऽव॒यम् । वृ॒क्षात्ऽइ॑व । स्रज॑म् । कृ॒त्वा । अप्रि॑ये । प्रति॑ । मु॒ञ्च॒ । तत् ॥६.२६॥


    स्वर रहित मन्त्र

    अप्रजास्त्वं मार्तवत्समाद्रोदमघमावयम्। वृक्षादिव स्रजं कृत्वाप्रिये प्रति मुञ्च तत् ॥

    स्वर रहित पद पाठ

    अप्रजा:ऽत्वम् । मार्तऽवत्सम् । आत् । रोदम् । अघम् । आऽवयम् । वृक्षात्ऽइव । स्रजम् । कृत्वा । अप्रिये । प्रति । मुञ्च । तत् ॥६.२६॥

    अथर्ववेद - काण्ड » 8; सूक्त » 6; मन्त्र » 26

    टिप्पणीः - २६−(अप्रजास्त्वम्) नित्यमसिच् प्रजामेधयोः। पा० ५।४।१२२। अप्रजा-असिच्, भावे त्व, छान्दसो दीर्घः। अप्रजस्त्वम्। सन्तानराहित्यम् (मार्तवत्सम्) भावे अण्। मृतबालत्वम् (आत्) अपि च (रोदम्) रुदिर् अश्रुविमोचने-घञ्। रोदनम् (अघम्) पापम् (आवयम्) आ+व+यम्। वा गतिगन्धनयोः-ड, युजिर् योगे-ड। आ समन्ताद् वस्य गन्धनस्य हिंसनस्य यं योगम् (वृक्षात्) द्रुमात् (इव) यथा (स्रजम्) अ० १।१४।१। पुष्पमालाम् (कृत्वा) निर्माय (अप्रिये) द्वेष्ये (प्रति मुञ्च) प्रत्यक्षं मोचय (तत्) पूर्वोक्तं कर्म ॥

    इस भाष्य को एडिट करें
    Top