Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 6/ मन्त्र 5
    सूक्त - मातृनामा देवता - मातृनामा अथवा मन्त्रोक्ताः छन्दः - अनुष्टुप् सूक्तम् - गर्भदोषनिवारण सूक्त

    यः कृ॒ष्णः के॒श्यसु॑र स्तम्ब॒ज उ॒त तुण्डि॑कः। अ॒राया॑नस्या मु॒ष्काभ्यां॒ भंस॒सोऽप॑ हन्मसि ॥

    स्वर सहित पद पाठ

    य: । कृ॒ष्ण: । के॒शी । असु॑र: । स्त॒म्ब॒ऽज: । उ॒त । तुण्डि॑क: । अ॒राया॑न् । अ॒स्या॒: । मु॒ष्काभ्या॑म् । भंस॑स: । अप॑ । ह॒न्म॒सि॒ ॥६.५॥


    स्वर रहित मन्त्र

    यः कृष्णः केश्यसुर स्तम्बज उत तुण्डिकः। अरायानस्या मुष्काभ्यां भंससोऽप हन्मसि ॥

    स्वर रहित पद पाठ

    य: । कृष्ण: । केशी । असुर: । स्तम्बऽज: । उत । तुण्डिक: । अरायान् । अस्या: । मुष्काभ्याम् । भंसस: । अप । हन्मसि ॥६.५॥

    अथर्ववेद - काण्ड » 8; सूक्त » 6; मन्त्र » 5

    टिप्पणीः - ५−(यः) रोगः (कृष्णः) कालवर्णः (केशी) केश-इनि। क्लिशेरन् लो लोपश्च। उ० ५।३३। क्लिश उपतापे अन्। क्लेशी। यद्वा के मस्तके शेते, शीङ् शयने-अच्, अलुक्समासः। बहुबालयुक्तः (असुरः) असेरुरन्। उ० १।४२। असु क्षेपणे-उरन्। क्षेप्ता (स्तम्बजः) स्थः स्तोऽम्बजवकौ। उ० ४।९६। तिष्ठतेः। अम्बच्, स्तादेशः। स्तम्बे स्थित्यङ्गे जातः (उत) अपि च (तुण्डिकः) सर्वधातुभ्य इन्-उ० ४।११८। तुडि तोडने-इन्। कुत्सिते। पा० ५।३।७४। इति-क। कुरूपमुखः। कुत्सितनाभः (अरायान्) अलक्ष्मीकान् रोगान् (अस्याः) गर्भिण्याः (मुष्काभ्याम्) अण्डकोशाभ्याम् (भंससः) अ० २।३३।५। गुह्यस्थानात् (अपहन्मसि) विनाशयामः ॥

    इस भाष्य को एडिट करें
    Top