अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 22
सूक्त - कौरुपथिः
देवता - अध्यात्मम्, मन्युः
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म सूक्त
नि॒न्दाश्च॒ वा अनि॑न्दाश्च॒ यच्च॒ हन्तेति॒ नेति॑ च। शरी॑रं श्र॒द्धा दक्षि॒णाश्र॑द्धा॒ चानु॒ प्रावि॑शन् ॥
स्वर सहित पद पाठनि॒न्दा: । च॒ । वै । अनि॑न्दा: । च॒ । यत् । च॒ । हन्त॑ । इति॑ । न । इति॑ । च॒ । शरी॑रम् । श्र॒ध्दा । दक्षि॑णा । अश्र॑ध्दा । च॒ । अनु॑ । प्र । अ॒वि॒श॒न् ॥१०.२२॥
स्वर रहित मन्त्र
निन्दाश्च वा अनिन्दाश्च यच्च हन्तेति नेति च। शरीरं श्रद्धा दक्षिणाश्रद्धा चानु प्राविशन् ॥
स्वर रहित पद पाठनिन्दा: । च । वै । अनिन्दा: । च । यत् । च । हन्त । इति । न । इति । च । शरीरम् । श्रध्दा । दक्षिणा । अश्रध्दा । च । अनु । प्र । अविशन् ॥१०.२२॥
अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 22
विषय - सब जगत् के कारण परमात्मा का उपदेश।
पदार्थ -
(निन्दाः) निन्दाएँ [गुणों में दोष लगाने] (च च वै) और भी (अनिन्दाः) अनिन्दाएँ [स्तुति, गुणों के कथन] (च) और (यत्) जो कुछ (हन्त) “हां”−(इति) ऐसा, (च) और (न) “ना”−(इति) ऐसा है और (दक्षिणा) दक्षिणा [प्रतिष्ठा], (श्रद्धा) श्रद्धा [सत्य ईश्वर और वेद में विश्वास] (च) और (अश्रद्धा) अश्रद्धा [ईश्वर और वेद में भक्ति न होना] [इन सब ने] (शरीरम्) शरीर में (अनु) धीरे-धीरे (प्र अविशन्) प्रवेश किया ॥२२॥
भावार्थ - मनुष्य विहित कर्मों के करने और निषिद्ध कर्मों को छोड़ने से सुसंस्कार के कारण शरीर द्वारा सुख प्राप्त करता है ॥२२॥
टिप्पणी -
२२−(निन्दाः) गुरोश्च हलः। पा० ३।३।१०३। णिदि कुत्सायाम्-अ प्रत्ययः। गुणेषु दोषारोपाः (च च) समुच्चये (वै) एव (अनिन्दाः) स्तुतयः। गुणकथनानि (च) (यत्) (च) (हन्त) हन हिंसागत्योः-त प्रत्ययः। हर्षे। स्वीकारे कर्मणां विधिसूचकः शब्दः (इति) वाक्यसमाप्तौ (न) निषेधे। कर्मणां निषेधसूचकः शब्दः (इति) (च) (शरीरम्) (श्रद्धा) सत्ये परमेश्वरे वेदे च विश्वासः (दक्षिणा) प्रतिष्ठा (अश्रद्धा) नास्तिकबुद्धिः। अन्यत् पूर्ववत् ॥