अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 32
सूक्त - कौरुपथिः
देवता - अध्यात्मम्, मन्युः
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म सूक्त
तस्मा॒द्वै वि॒द्वान्पुरु॑षमि॒दं ब्रह्मेति॑ मन्यते। सर्वा॒ ह्यस्मिन्दे॒वता॒ गावो॑ गो॒ष्ठ इ॒वास॑ते ॥
स्वर सहित पद पाठतस्मा॑त् । वै । वि॒द्वान् । पुरु॑षम् । इ॒दम् । ब्रह्म॑ । इति॑ । म॒न्य॒ते॒ । सर्वा॑: । हि । अ॒स्मि॒न् । दे॒वता॑: । गाव॑: । गो॒स्थेऽइ॑व । आस॑ते ॥१०.३२॥
स्वर रहित मन्त्र
तस्माद्वै विद्वान्पुरुषमिदं ब्रह्मेति मन्यते। सर्वा ह्यस्मिन्देवता गावो गोष्ठ इवासते ॥
स्वर रहित पद पाठतस्मात् । वै । विद्वान् । पुरुषम् । इदम् । ब्रह्म । इति । मन्यते । सर्वा: । हि । अस्मिन् । देवता: । गाव: । गोस्थेऽइव । आसते ॥१०.३२॥
अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 32
विषय - सब जगत् के कारण परमात्मा का उपदेश।
पदार्थ -
(तस्मात्) उससे [ब्रह्म से उत्पन्न] (वै) निश्चय करके (पुरुषम्) पुरुष [पुरुष शरीर] को (विद्वान्) जाननेवाला [मनुष्य] “(ब्रह्म) ब्रह्म [परमात्मा] (इदम्) परम ऐश्वर्यवाला है” (इति) ऐसा (मन्यते) मानता है। (हि) क्योंकि (अस्मिन्) इस [परमात्मा] में (सर्वाः) सब (देवताः) दिव्यपदार्थ [पृथिवी, सूर्य आदि लोक] (आसते) ठहरते हैं, (इव) जैसे (गावः) गौएँ (गोष्ठे) गोशाला में [सुख से रहती] हैं ॥३२॥
भावार्थ - मनुष्य अपने शरीर में परमात्मा की अद्भुत स्थूल और सूक्ष्म रचना देखकर समस्त ब्रह्माण्ड का कर्ता, धर्ता और आधार उसको जाने ॥३२॥
टिप्पणी -
३२−(तस्मात्) परमात्मनः सकाशात् (वै) एव (विद्वान्) जानन् (पुरुषम्) पुरुषशरीरम् (इदम्) इन्देः कमिन्नलोपश्च। उ० ४।१५७। इदि परमैश्वर्ये-कमिन्। परमैश्वर्ययुक्तम् (ब्रह्म) परमात्मा (इति) एवम् (मन्यते) जानाति (सर्वाः) समस्ताः (हि) यस्मात् (अस्मिन्) परमात्मनि (देवताः) दिव्यपदार्थाः पृथिवीसूर्यादिलोकाः (गावः) धेनवः (गोष्ठे) गोशालायाम् (इव) (आसते) तिष्ठन्ति ॥