अथर्ववेद - काण्ड 15/ सूक्त 2/ मन्त्र 12
सूक्त - अध्यात्म अथवा व्रात्य
देवता - आर्षी परानुष्टुप्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
य॑ज्ञाय॒ज्ञिय॑स्य च॒ वै स वा॑मदे॒व्यस्य॑ च य॒ज्ञस्य॑ च॒ यज॑मानस्य च पशू॒नांच॑ प्रि॒यं धाम॑ भवति॒ तस्य॒ दक्षि॑णायां दिशि ॥
स्वर सहित पद पाठय॒ज्ञा॒य॒ज्ञिय॑स्य । च॒ । वै । स: । वा॒म॒ऽदे॒वस्य॑ । च॒ । य॒ज्ञस्य॑ । च॒ । यज॑मानस्य । च॒ । प॒शू॒नाम् । च॒ । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । तस्य॑ । दक्षि॑णायाम् । दि॒शि ॥२.१२॥
स्वर रहित मन्त्र
यज्ञायज्ञियस्य च वै स वामदेव्यस्य च यज्ञस्य च यजमानस्य च पशूनांच प्रियं धाम भवति तस्य दक्षिणायां दिशि ॥
स्वर रहित पद पाठयज्ञायज्ञियस्य । च । वै । स: । वामऽदेवस्य । च । यज्ञस्य । च । यजमानस्य । च । पशूनाम् । च । प्रियम् । धाम । भवति । तस्य । दक्षिणायाम् । दिशि ॥२.१२॥
अथर्ववेद - काण्ड » 15; सूक्त » 2; मन्त्र » 12
विषय - परमेश्वर की सर्वत्र व्यापकता का उपदेश।
पदार्थ -
(सः) वह [विद्वान्] (वै) निश्चय करके (यज्ञायज्ञियस्य) सब यज्ञों के हितकारी [वेदज्ञान] का (च च)और भी (वामदेव्यस्य) वामदेव [श्रेष्ठ परमात्मा] से जताये गये [भूतपञ्चक] का (च)और (यज्ञस्य) यज्ञ [पूजनीय व्यवहार] का (च) और (यजमानस्य) यजमान [पूजनीय व्यवहारकरनेवाले पुरुष] का (च) और (पशूनाम्) सब जीव-जन्तुओं का (प्रियम्) प्रिय (धाम)धाम [घर], (भवति) होता है। और (तस्य) उस [विद्वान्] के लिये (दक्षिणायाम्)दाहिनी [वा दक्षिण] (दिशि) दिशा में ॥१२॥
भावार्थ - जो मनुष्य परमात्मा केज्ञान के साथ अविद्या के त्याग और विद्या की प्राप्ति से योग्य पदार्थों केउपकार और अयोग्यों के अपकार को जानकर अपना कर्तव्य करता है, वह संसार मेंकीर्तिमान् और यशस्वी होता है ॥१२-१४॥
टिप्पणी -
१२−(यज्ञायज्ञियस्य)सर्वव्यवहारहितस्य वेदज्ञानस्य (वामदेव्यस्य) श्रेष्ठपरमात्मना ज्ञापितस्यभूतपञ्चकस्य (यज्ञस्य) पूजनीयव्यवहारस्य (यजमानस्य) पूजनीयकर्मकारस्य पुरुषस्य (पशूनाम्) सर्वजन्तूनाम् (तस्य) तस्मै (दक्षिणायाम्) अवामदेशस्थायाम्।दक्षिणस्याम्। अन्यत् पूर्ववत्-म० ४ ॥