अथर्ववेद - काण्ड 15/ सूक्त 2/ मन्त्र 24
सूक्त - अध्यात्म अथवा व्रात्य
देवता - द्विपदा ब्राह्मी गायत्री
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
श्यै॒तस्य॑ च॒ वैस नौ॑ध॒सस्य॑ च सप्तर्षी॒णां च॒ सोम॑स्य च॒ राज्ञः॑ प्रि॒यं धाम॑ भवति॒ तस्योदी॑च्यां दि॒शि ॥
स्वर सहित पद पाठश्यै॒तस्य॑ । च॒ । वै । स: । नौ॒ध॒सस्य॑ । च॒ । स॒प्त॒ऽऋ॒षी॒णाम् । च॒ । सोम॑स्य । च॒ । राज्ञ॑: । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । तस्य॑ । उदी॑च्याम् । दि॒शि ॥२.२४॥
स्वर रहित मन्त्र
श्यैतस्य च वैस नौधसस्य च सप्तर्षीणां च सोमस्य च राज्ञः प्रियं धाम भवति तस्योदीच्यां दिशि ॥
स्वर रहित पद पाठश्यैतस्य । च । वै । स: । नौधसस्य । च । सप्तऽऋषीणाम् । च । सोमस्य । च । राज्ञ: । प्रियम् । धाम । भवति । तस्य । उदीच्याम् । दिशि ॥२.२४॥
अथर्ववेद - काण्ड » 15; सूक्त » 2; मन्त्र » 24
विषय - परमेश्वर की सर्वत्र व्यापकता का उपदेश।
पदार्थ -
(सः) वह [विद्वान्] (वै) निश्चय करके (श्यैतस्य) श्यैत [सद्गति बतानेवाले वेदज्ञान] का (च च) और भी (नौधसस्य) नौधस [ऋषियों के हितकारी मोक्षज्ञान] का (च) और (सप्तर्षीणाम्) सातऋषियों [छह इन्द्रियों और सातवीं बुद्धि-मन्त्र २२] का (च) और (राज्ञः)ऐश्वर्यवान् (सोमस्य) प्रेरक पुरुष का (प्रियम्) प्रिय (धाम) धाम [घर] (भवति)होता है। और (तस्य) उस [विद्वान्] के लिये (उदीच्याम्) बायीं [वा उत्तर] (दिशि)दिशा में ॥२४॥
भावार्थ - जो मनुष्य परमात्मामें लवलीन होता है, वही वेदज्ञान और मोक्षज्ञान से जितेन्द्रिय और सर्वहितैषीहोकर संसार में सब पदार्थों से उपकार लेकर आनन्द पाता है ॥२४-२८॥
टिप्पणी -
२४−(श्यैतस्य) म० २२।सद्गतिप्रतिपादकस्य वेदज्ञानस्य (नौधसस्य) ऋषीणां हितकरस्य मोक्षज्ञानस्य (सप्तर्षीणाम्) म० २२। सबुद्धिषडिन्द्रियाणाम् (सोमस्य) प्रेरकस्य मनुष्यस्य (राज्ञः) ऐश्वर्यवतः। अन्यद् गतम्-म० ४ ॥