अथर्ववेद - काण्ड 15/ सूक्त 2/ मन्त्र 4
सूक्त - अध्यात्म अथवा व्रात्य
देवता - द्विपदा ब्राह्मी गायत्री
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
बृ॑ह॒तश्च॒ वै सर॑थन्त॒रस्य॑ चादि॒त्यानां॑ च॒ विश्वे॑षां च दे॒वानां॑ प्रि॒यं धाम॑ भवति॒ तस्य॒ प्राच्यां॑ दि॒शि ॥
स्वर सहित पद पाठबृ॒ह॒त: । च॒ । वै । स: । र॒थ॒म्ऽत॒रस्य॑ । च॒ । आ॒दि॒त्याना॑म् । च॒ । विश्वे॑षाम् । च॒ । दे॒वाना॑म् । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । तस्य॑ । प्राच्या॑म् । दि॒शि ॥२.४॥
स्वर रहित मन्त्र
बृहतश्च वै सरथन्तरस्य चादित्यानां च विश्वेषां च देवानां प्रियं धाम भवति तस्य प्राच्यां दिशि ॥
स्वर रहित पद पाठबृहत: । च । वै । स: । रथम्ऽतरस्य । च । आदित्यानाम् । च । विश्वेषाम् । च । देवानाम् । प्रियम् । धाम । भवति । तस्य । प्राच्याम् । दिशि ॥२.४॥
अथर्ववेद - काण्ड » 15; सूक्त » 2; मन्त्र » 4
विषय - परमेश्वर की सर्वत्र व्यापकता का उपदेश।
पदार्थ -
(सः) वह [विद्वान्] (वै) निश्चय करके (बृहतः) बृहत् [बड़े आकाश] का (च च) और भी (रथन्तरस्य) रथन्तर [रमणीय गुणों द्वारा पार होने योग्य जगत्] का (च) और (आदित्यानाम्) चमकनेवालेसूर्यों का (च) और (विश्वेषाम्) सब (देवानाम्) गतिवाले लोकों [अर्थात् उनकेज्ञान] का (प्रियम्) प्रिय (धाम) धाम [घर] (भवति) होता है और (तस्य) उस [विद्वान्] के लिये (प्राच्यां दिशि) सामनेवाली [वा पूर्व] दिशा में ॥४॥
भावार्थ - जब मनुष्य योगाभ्यासकरके शुद्ध ज्ञान द्वारा परमाणु से लेकर परमेश्वर तक साक्षात् कर लेता है, वहपूर्णकाम और पूर्ण विज्ञानी होकर संसार में अपने आप कीर्ति और यश पाता है॥४-८॥
टिप्पणी -
४−(बृहतः)प्रवृद्धस्याकाशस्य (च) (वै) (सः) विद्वान् (रथन्तरस्य) रमणीयैर्गुणैस्तरणीयस्यजगतः (च) (आदित्यानाम्) आदीप्यमानानां सूर्याणाम् (च) (विश्वेषाम्) (च) (देवानाम्) गतिमतां लोकानाम् (प्रियम्) (धाम) गृहम् (भवति) (तस्य) चतुर्थ्यांषष्ठी। विदुषे जनाय (प्राच्याम्) अभिमुखीभूतायाम्। पूर्वस्याम् (दिशि) दिशायाम्॥