अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 32
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
नवं॑ ब॒र्हिरो॑द॒नाय॑ स्तृणीत प्रि॒यं हृ॒दश्चक्षु॑षो व॒ल्ग्वस्तु। तस्मि॑न्दे॒वाः स॒ह दै॒वीर्वि॑शन्त्वि॒मं प्राश्न॑न्त्वृ॒तुभि॑र्नि॒षद्य॑ ॥
स्वर सहित पद पाठनव॑म् । ब॒र्हि: । ओ॒द॒नाय॑ । स्तृ॒णी॒त॒ । प्रि॒यम् । हृ॒द: । चक्षु॑ष: । व॒ल्गु । अ॒स्तु॒ । तस्मि॑न् । दे॒वा:। स॒ह । दै॒वी: । वि॒श॒न्तु॒ । इ॒मम् । प्र । अ॒श्न॒न्तु॒ । ऋ॒तुऽभि॑: । नि॒ऽसद्य॑ ॥३.३२॥
स्वर रहित मन्त्र
नवं बर्हिरोदनाय स्तृणीत प्रियं हृदश्चक्षुषो वल्ग्वस्तु। तस्मिन्देवाः सह दैवीर्विशन्त्विमं प्राश्नन्त्वृतुभिर्निषद्य ॥
स्वर रहित पद पाठनवम् । बर्हि: । ओदनाय । स्तृणीत । प्रियम् । हृद: । चक्षुष: । वल्गु । अस्तु । तस्मिन् । देवा:। सह । दैवी: । विशन्तु । इमम् । प्र । अश्नन्तु । ऋतुऽभि: । निऽसद्य ॥३.३२॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 32
Subject - Svarga and Odana
Meaning -
Strew fresh sheets of grass for the rice feast. Let these be soothing to the heart and pleasing to the eye. On them let divine sages with divine ladies be seated and enjoy this feast of rice according to the seasons.