अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 15
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - अनुष्टुप्
सूक्तम् - सर्पविषदूरीकरण सूक्त
आयम॑ग॒न्युवा॑ भि॒षक्पृ॑श्नि॒हाप॑राजितः। स वै स्व॒जस्य॒ जम्भ॑न उ॒भयो॒र्वृश्चि॑कस्य च ॥
स्वर सहित पद पाठआ । अ॒यम् । अ॒ग॒न् । युवा॑ । भि॒षक् । पृ॒श्नि॒ऽहा । अप॑राऽजित: । स: । वै । स्व॒जस्य॑ । जम्भ॑न: । उ॒भयो॑: । वृश्चि॑कस्य । च॒ ॥४.१५॥
स्वर रहित मन्त्र
आयमगन्युवा भिषक्पृश्निहापराजितः। स वै स्वजस्य जम्भन उभयोर्वृश्चिकस्य च ॥
स्वर रहित पद पाठआ । अयम् । अगन् । युवा । भिषक् । पृश्निऽहा । अपराऽजित: । स: । वै । स्वजस्य । जम्भन: । उभयो: । वृश्चिकस्य । च ॥४.१५॥
अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 15
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १५−(आ अगन्) आगतवान् (अयम्) प्रसिद्धः (भिषक्) चिकित्सकः (पृश्निहा) घृणिपृश्निपार्ष्णि०। उ० ४।५२। स्पृश स्पर्शे-नि, सलोपः+हन हिंसागत्योः-क्विप्। स्पर्शनशीलानां सर्पाणां नाशकः (अपराजितः) अनभिभूतः (सः) भिषक् (वै) निश्चयेन (स्वजस्य) म० १०। आलिङ्गनशीलस्य सर्पस्य (जम्भनः) नाशकः (वृश्चिकस्य) छेदनशीलस्य कीटस्य (च) ॥
इस भाष्य को एडिट करें