अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 23
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - त्रिष्टुप्
सूक्तम् - सर्पविषदूरीकरण सूक्त
ये अ॑ग्नि॒जा ओ॑षधि॒जा अही॑नां॒ ये अ॑प्सु॒जा वि॒द्युत॑ आबभू॒वुः। येषां॑ जा॒तानि॑ बहु॒धा म॒हान्ति॒ तेभ्यः॑ स॒र्पेभ्यो॒ नम॑सा विधेम ॥
स्वर सहित पद पाठये । अ॒ग्नि॒:ऽजा: । ओ॒ष॒धि॒ऽजा: । अही॑नाम् । ये । अ॒प्सु॒ऽजा: । वि॒ऽद्युत॑: । आ॒ऽब॒भू॒वु: । येषा॑म् । जा॒तानि॑ । ब॒हु॒ऽधा । म॒हान्ति॑ । तेभ्य॑: । स॒र्पेभ्य॑: । नम॑सा । वि॒धे॒म॒ ॥४.२३॥
स्वर रहित मन्त्र
ये अग्निजा ओषधिजा अहीनां ये अप्सुजा विद्युत आबभूवुः। येषां जातानि बहुधा महान्ति तेभ्यः सर्पेभ्यो नमसा विधेम ॥
स्वर रहित पद पाठये । अग्नि:ऽजा: । ओषधिऽजा: । अहीनाम् । ये । अप्सुऽजा: । विऽद्युत: । आऽबभूवु: । येषाम् । जातानि । बहुऽधा । महान्ति । तेभ्य: । सर्पेभ्य: । नमसा । विधेम ॥४.२३॥
अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 23
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २३−(ये) अहयः (अग्निजाः) अग्नौ जाताः (ओषधिजाः) ओषधिषु जाताः (अहीनाम्) सर्पाणां मध्ये (ये) (अप्सुजाः) जलजाताः (विद्युतः) तडितो यथा (आबभूवुः) समन्तात्प्रादुर्बभूवुः (येषाम्) (जातानि) वृन्दानि (बहुधा) नानाप्रकारेण (महान्ति) विशालानि (तेभ्यः) (सर्पेभ्यः) सर्पान् नाशयितुम् (नमसा) वज्रेण (विधेम) विध विधाने=शासने-लिङ्। शासनं कुर्याम ॥
इस भाष्य को एडिट करें