अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 6
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - अनुष्टुप्
सूक्तम् - सर्पविषदूरीकरण सूक्त
पैद्व॒ प्रेहि॑ प्रथ॒मोऽनु॑ त्वा व॒यमेम॑सि। अही॒न्व्यस्यतात्प॒थो येन॑ स्मा व॒यमे॒मसि॑ ॥
स्वर सहित पद पाठपैद्व॑ । प्र । इ॒हि॒ । प्र॒थ॒म: । अनु॑ । त्वा॒ । व॒यम् । आ । ई॒म॒सि॒ । अही॑न् । वि । अ॒स्य॒ता॒त् । प॒थ: । येन॑ । स्म॒ । व॒यम् । आ॒ऽई॒मसि॑ ॥४.६॥
स्वर रहित मन्त्र
पैद्व प्रेहि प्रथमोऽनु त्वा वयमेमसि। अहीन्व्यस्यतात्पथो येन स्मा वयमेमसि ॥
स्वर रहित पद पाठपैद्व । प्र । इहि । प्रथम: । अनु । त्वा । वयम् । आ । ईमसि । अहीन् । वि । अस्यतात् । पथ: । येन । स्म । वयम् । आऽईमसि ॥४.६॥
अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(पैद्वः) म० ५। हे शीघ्रगामिन् (प्र इहि) अग्रे गच्छ (प्रथमः) प्रधानः (अनु) अनुसृत्य (त्वा) (वयम्) (आ-ईमसि) ई गतौ-लट्, मसो मसि। ईमः। आगच्छामः (अहीन्) म० १। महाहिंसकान्। सर्पान् (वि) विशेषेण (अस्यतात्) अस्य। क्षिप (पथः) मार्गात् (येन) यथा (स्म) अवधारणे (वयम्, आ ईमसि) ॥
इस भाष्य को एडिट करें