अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 17
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - अनुष्टुप्
सूक्तम् - सर्पविषदूरीकरण सूक्त
इन्द्रो॒ मेऽहि॑मरन्धय॒त्पृदा॑कुं च पृदा॒क्वम्। स्व॒जं तिर॑श्चिराजिं कस॒र्णीलं॒ दशो॑नसिम् ॥
स्वर सहित पद पाठइन्द्र॑: । मे॒ । अहि॑म् । अ॒र॒न्ध॒य॒त् । पृदा॑कुम् । च॒ । पृ॒दा॒क्वम् । स्व॒जम् । तिर॑श्चिऽराजिम् । क॒स॒र्णील॑म् । दशो॑नसिम् ॥४.१७॥
स्वर रहित मन्त्र
इन्द्रो मेऽहिमरन्धयत्पृदाकुं च पृदाक्वम्। स्वजं तिरश्चिराजिं कसर्णीलं दशोनसिम् ॥
स्वर रहित पद पाठइन्द्र: । मे । अहिम् । अरन्धयत् । पृदाकुम् । च । पृदाक्वम् । स्वजम् । तिरश्चिऽराजिम् । कसर्णीलम् । दशोनसिम् ॥४.१७॥
अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 17
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १७−(इन्द्रः) परमैश्वर्यवान् पुरुषः (मे) मह्यम् (अहिम्) महाहिंसकम् (अरन्धयत्) म० १० मारितवान् (पृदाकुम्) कुत्सितशब्दकारिणम् (च) (पृदाक्कम्) कुत्सितशब्दकरी सर्पिणीम् (स्वजम्) आलिङ्गनशीलम् (तिरश्चिराजिम्) म० १३। तिर्यगवस्थितरेखम् (कसर्णीलम्) म० ५। कुत्सितमार्गे लीनं श्लिष्टम् (दशोनसिम्) दंश दंशने-घञर्थे क। सानसिवर्णसि०। उ० ४।१०७। ऊन परिहाणे-असि। दशेन दंशनेन ऊनसिर्हानिर्यस्मात् तं सर्पम् ॥
इस भाष्य को एडिट करें