Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 3
    सूक्त - गरुत्मान् देवता - तक्षकः छन्दः - पथ्याबृहती सूक्तम् - सर्पविषदूरीकरण सूक्त

    अव॑ श्वेत प॒दा ज॑हि॒ पूर्वे॑ण॒ चाप॑रेण च। उ॑दप्लु॒तमि॑व॒ दार्वही॑नामर॒सं वि॒षं वारु॒ग्रम् ॥

    स्वर सहित पद पाठ

    अव॑ । श्वे॒त॒ । प॒दा । ज॒हि॒ । पूर्वे॑ण । च॒ । अप॑रेण । च॒ । उ॒दप्लु॒तम्ऽइ॑व । दारु॑ । अही॑नाम् । अ॒र॒सम् । वि॒षम् । वा: । उ॒ग्रम् ॥४.३॥


    स्वर रहित मन्त्र

    अव श्वेत पदा जहि पूर्वेण चापरेण च। उदप्लुतमिव दार्वहीनामरसं विषं वारुग्रम् ॥

    स्वर रहित पद पाठ

    अव । श्वेत । पदा । जहि । पूर्वेण । च । अपरेण । च । उदप्लुतम्ऽइव । दारु । अहीनाम् । अरसम् । विषम् । वा: । उग्रम् ॥४.३॥

    अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 3

    टिप्पणीः - ३−(श्वेत) हसिमृग्रिण्० उ० ३।८६। टुओश्वि गतिवृद्ध्योः-तन्। हे प्रवृद्ध। मनुष्य (पदा) पादेन (अव जहि) विनाशय (पूर्वेण) अग्रभागेन (च) (अपरेण) पश्चाद् भागेन (उदप्लुतम्) जले सृप्तम् (इव) (दारु) काष्ठम् (अहीनाम्) म० १। सर्पाणाम् (अरसम्) सारहीनम् (विषम्) गरलम् (वाः) जलम् (उग्रम्) क्रूरम् ॥

    इस भाष्य को एडिट करें
    Top