Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 21
    सूक्त - गरुत्मान् देवता - तक्षकः छन्दः - ककुम्मत्यनुष्टुप् सूक्तम् - सर्पविषदूरीकरण सूक्त

    ओष॑धीनाम॒हं वृ॑ण उ॒र्वरी॑रिव साधु॒या। नया॒म्यर्व॑तीरि॒वाहे॑ नि॒रैतु॑ ते वि॒षम् ॥

    स्वर सहित पद पाठ

    ओष॑धीनाम् । अ॒हम् । वृ॒णे॒ । उ॒र्वरी॑:ऽइव । सा॒धु॒ऽया । नया॑मि । अर्व॑ती:ऽइव । अहे॑ । नि॒:ऽऐतु॑ । ते॒ । वि॒षम् ॥४.२१॥


    स्वर रहित मन्त्र

    ओषधीनामहं वृण उर्वरीरिव साधुया। नयाम्यर्वतीरिवाहे निरैतु ते विषम् ॥

    स्वर रहित पद पाठ

    ओषधीनाम् । अहम् । वृणे । उर्वरी:ऽइव । साधुऽया । नयामि । अर्वती:ऽइव । अहे । नि:ऽऐतु । ते । विषम् ॥४.२१॥

    अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 21

    टिप्पणीः - २१−(ओषधीनाम्) (अहम्) (वृणे) अङ्गीकरोमि (उर्वरीः) उरु+ऋ गतिप्रापणयोः-अच्, ङीप्। उरुभिर्महद्भिः प्रापणीया ओषधीः (इव) पादपूरणः (साधुया) सुपां सुलुक्०। पा० ७।१।३९। विभक्तेर्याजादेशः। साधुना धर्मेण सह (नयामि) प्रापयामि (अर्वतीः) अ० ६।९२।२। ऋ गतिप्रापणयोः-वनिप्। अर्वणस्त्रसावनञः। पा० ६।४।१२७। इति तृ, उगित्वाद् ङीप् बुद्धिमतीः स्त्रीः। अर्वतीः प्रशस्तबुद्धिमत्यः कन्याः-दयानन्दभाष्ये, ऋ० १, ३ (इव) यथा (अहे) हे सर्प (निरैतु) बहिरागच्छतु (ते) तव ॥

    इस भाष्य को एडिट करें
    Top