अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 19
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - अनुष्टुप्
सूक्तम् - सर्पविषदूरीकरण सूक्त
सं हि शी॒र्षाण्यग्र॑भं पौञ्जि॒ष्ठ इ॑व॒ कर्व॑रम्। सिन्धो॒र्मध्यं॑ प॒रेत्य॒ व्यनिज॒महे॑र्वि॒षम् ॥
स्वर सहित पद पाठसम् । हि । शी॒र्षाणि॑ । अग्र॑भम् । पौ॒ञ्जि॒ष्ठ:ऽइ॑व । कर्व॑रम् । सिन्धो॑: । मध्य॑म् । प॒रा॒ऽइत्य॑ । वि । अ॒नि॒ज॒म् । अहे॑: । वि॒षम् ॥४.१९॥
स्वर रहित मन्त्र
सं हि शीर्षाण्यग्रभं पौञ्जिष्ठ इव कर्वरम्। सिन्धोर्मध्यं परेत्य व्यनिजमहेर्विषम् ॥
स्वर रहित पद पाठसम् । हि । शीर्षाणि । अग्रभम् । पौञ्जिष्ठ:ऽइव । कर्वरम् । सिन्धो: । मध्यम् । पराऽइत्य । वि । अनिजम् । अहे: । विषम् ॥४.१९॥
अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 19
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १९−(सम्) सम्यक् (हि) यस्मात् कारणात् (शीर्षाणि) मस्तकानि (अग्रभम्) अग्रहम्। अग्रहीषम् (पौञ्जिष्ठः) प्र−ओजिष्ठः प्र−ओजस्वी-इष्ठन्। विन्मतोर्लुक्। पा० ५।३।६५। विनो लुक् छान्दसं रूपम्। ओजिष्ठः। पराक्रमितमः (इव) यथा (कर्वरम्) कॄगृशॄवृञ्चतिभ्यः ष्वरच्। उ० २।१२१। कॄ क्षेपे हिंसायां च यद्वा कृञ् हिंसायाम्−ष्वरच्। हिंसकम्। व्याघ्रम्। राक्षसम् (सिन्धोः) नद्याः (मध्यम्) (परेत्य) दूरं गत्वा (वि) विविधम् (अनिजम्) णिजिर् शौचपोषणयोः−लुङ् (अहेः) म० १। सर्पस्य (विषम्) ॥
इस भाष्य को एडिट करें