अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 24
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - अनुष्टुप्
सूक्तम् - सर्पविषदूरीकरण सूक्त
तौदी॒ नामा॑सि क॒न्या घृ॒ताची॒ नाम॒ वा अ॑सि। अ॑धस्प॒देन॑ ते प॒दमा द॑दे विष॒दूष॑णम् ॥
स्वर सहित पद पाठतौदी॑ । नाम॑ । अ॒सि॒ । क॒न्या᳡ । घृ॒ताची॑ । नाम॑ । वै । अ॒सि॒ । अ॒ध॒:ऽप॒देन॑ । ते॒ । प॒दम् । आ । द॒दे॒ । वि॒ष॒ऽदूष॑णम् ॥४.२४॥
स्वर रहित मन्त्र
तौदी नामासि कन्या घृताची नाम वा असि। अधस्पदेन ते पदमा ददे विषदूषणम् ॥
स्वर रहित पद पाठतौदी । नाम । असि । कन्या । घृताची । नाम । वै । असि । अध:ऽपदेन । ते । पदम् । आ । ददे । विषऽदूषणम् ॥४.२४॥
अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 24
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २४−(तौदी) अब्दादयश्च। उ० ४।९८। तु गतिवृद्ध्योः-द प्रत्ययः। तोदो वृद्धिः, अण्, ङीप्। तोदेन बलवृद्ध्या युक्ता (नाम) नाम्ना (असि) (कन्या) अ० १।१४।२। कनी दीप्तिकान्तिगतिषु-यक्। कमनीया। कुमारिका। ओषधिविशेषः (घृताची) घृतं रसमञ्चयति प्रापयति सा (नाम) (वै) एव (अधस्पदेन) शत्रूणां नीचपदेन (ते) तव (पदम्) प्रापणीयं गुणम् (आ ददे) गृह्णामि (विषदूषणम्) विषनाशकम् ॥
इस भाष्य को एडिट करें