अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 11
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - अनुष्टुप्
सूक्तम् - सर्पविषदूरीकरण सूक्त
पै॒द्वस्य॑ मन्महे व॒यं स्थि॒रस्य॑ स्थि॒रधा॑म्नः। इ॒मे प॒श्चा पृदा॑कवः प्र॒दीध्य॑त आसते ॥
स्वर सहित पद पाठपै॒द्वस्य॑ । म॒न्म॒हे॒ । व॒यम् । स्थि॒रस्य॑ । स्थि॒रऽधा॑म्न: । इ॒मे । प॒श्चा । पृदा॑कव: । प्र॒ऽदीध्य॑त: । आ॒स॒ते॒ ॥४.११॥
स्वर रहित मन्त्र
पैद्वस्य मन्महे वयं स्थिरस्य स्थिरधाम्नः। इमे पश्चा पृदाकवः प्रदीध्यत आसते ॥
स्वर रहित पद पाठपैद्वस्य । मन्महे । वयम् । स्थिरस्य । स्थिरऽधाम्न: । इमे । पश्चा । पृदाकव: । प्रऽदीध्यत: । आसते ॥४.११॥
अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 11
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ११−(पैद्वस्य) म० ५। शीघ्रगामिनः पुरुषस्य। अधीगर्थदयेशां कर्मणि। पा० २।३।५२। इति षष्ठी (मन्महे) चिन्तयामः। स्मरामः (वयम्) (स्थिरस्य) दृढस्वभावस्य (स्थिरधाम्नः) दृढतेजस्कस्य (इमे) (पश्चा) तलोपः। पश्चात् (पृदाकवः) कुत्सितशब्दकारकाः। सर्पाः (प्रदीध्यतः) वर्तमाने पृषद्बृहन्०। उ० २।८४। दीधीङ् दीप्तिदेवनयोः-अति। कीडन्तः (आसते) तिष्ठन्ति ॥
इस भाष्य को एडिट करें