अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 16
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - त्रिपदा प्रतिष्ठा गायत्री
सूक्तम् - सर्पविषदूरीकरण सूक्त
इन्द्रो॒ मेऽहि॑मरन्धयन्मि॒त्रश्च॒ वरु॑णश्च। वा॑तापर्ज॒न्यो॒भा ॥
स्वर सहित पद पाठइन्द्र॑: । मे॒ । अहि॑म् । अ॒र॒न्ध॒य॒त् । मि॒त्र: । च॒ । वरु॑ण: । च॒ । वा॒ता॒प॒र्ज॒न्या᳡ । उ॒भा ॥४.१६॥
स्वर रहित मन्त्र
इन्द्रो मेऽहिमरन्धयन्मित्रश्च वरुणश्च। वातापर्जन्योभा ॥
स्वर रहित पद पाठइन्द्र: । मे । अहिम् । अरन्धयत् । मित्र: । च । वरुण: । च । वातापर्जन्या । उभा ॥४.१६॥
अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 16
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १६−(इन्द्रः) परमैश्वर्यवान् वैद्यः (मे) मह्यम् (अहिम्) म० १। महाहिंसकं सर्पम् (अरन्धयत्) म० १०। मारितवान् (मित्रः) प्रेरकः सूर्यो यथा (च) (वरुणः) जलवद् गुणकारी (वातापर्जन्या) वायुमेघौ यथा (उभा) द्वौ ॥
इस भाष्य को एडिट करें