अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 25
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - अनुष्टुप्
सूक्तम् - सर्पविषदूरीकरण सूक्त
अङ्गा॑दङ्गा॒त्प्र च्या॑वय॒ हृद॑यं॒ परि॑ वर्जय। अधा॑ वि॒षस्य॒ यत्तेजो॑ऽवा॒चीनं॒ तदे॑तु ते ॥
स्वर सहित पद पाठअङ्गा॑त्ऽअङ्गात् । प्र । च्य॒व॒य॒ । हृद॑यम् । परि॑ । व॒र्ज॒य॒ । अध॑ । वि॒षस्य॑ । यत् । तेज॑: । अ॒वा॒चीन॑म् । तत् । ए॒तु॒ । ते॒ ॥४.२५॥
स्वर रहित मन्त्र
अङ्गादङ्गात्प्र च्यावय हृदयं परि वर्जय। अधा विषस्य यत्तेजोऽवाचीनं तदेतु ते ॥
स्वर रहित पद पाठअङ्गात्ऽअङ्गात् । प्र । च्यवय । हृदयम् । परि । वर्जय । अध । विषस्य । यत् । तेज: । अवाचीनम् । तत् । एतु । ते ॥४.२५॥
अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 25
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २५−(अङ्गादङ्गात्) (प्र च्यवय) बहिर्गमय (हृदयम्) (परि) सर्वतः (वर्जय) रोधय (अध) अथ (विषस्य) (यत्) (तेजः) तीक्ष्णता (अवाचीनम्) अधोमुखं गतम् (तत्) (एतु) गच्छतु (ते) तुभ्यम् ॥
इस भाष्य को एडिट करें